वैशम्पायनः-
एतस्मिन्नेव काले तु सर्ववादित्रनिस्स्वनः
बभूव तुमुलश्शब्दस्त्वन्तरिक्षे दिवौकसाम्
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत
भुजङ्गव्याघ्रसिंहानां पक्षिणां चैव सर्वशः
रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वहाः
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा
ते समन्तादनुययुर्गन्धर्वाप्सरसस्तदा
विमानैस्सूर्यसङ्काशैर्देवराजमरिन्दमम्
ततस्स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्
मेघनादिनमारुह्य श्रिया परमया ज्वलन्
पार्थानभ्याजगामाऽऽशु देवराजः पुरन्दरः
आगत्य च सहस्राक्षो रथादवरुरोह वै
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः
भ्रातृभिस्सहितश्श्रीमान्देवराजमुपागमत्
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः
यथार्हममितात्मानं विधिदृष्टेन कर्मणा
धनञ्जयस्तु तेजस्वी प्रणिपत्य पुरन्दरम्
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके
जटिलं देवराजस्य तपोयुक्तमकल्मषम्
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्
तं तथाऽदीनमनसं राजानं हर्षसंयुतम्
उवाच वचनं धीमान्धर्मराजं पुरन्दरः
इन्द्रः-
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन्
कृतप्रियश्चास्मि धनञ्जयेन जेतुं न शक्यस्त्रिभिरेव लोकैः
वैशम्पायनः-
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्
जगाम त्रिदिवं हृष्टस्स्तूयमानो महर्षिभिः
धनेश्वरगृहस्थानां पाण्डवानां समागमम्
शक्रेण य इदं विद्वानधीयीत समाहितः
संवत्सरं ब्रह्मचारी नियतस्संशितव्रतः
स जीवेद्भरतश्रेष्ठ सुसुखी शरदां शतम्