वैशम्पायनः-
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम्
रतिः प्रमोदश्च बभूव राजन्नाकाङ्क्षतां दर्शनमर्जुनस्य
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वांस्तेजस्विनस्सत्यभृतां वरिष्ठान्
सम्प्रीयमाणा बहुधाऽभिजग्मुर्गन्धर्वसङ्घाश्च महर्षयश्च
तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम्
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः
साक्षात्कुबेरेण कृताश्च तस्मिन्नगोत्तमे संवृतकूटगुल्माः
कारण्डकादम्बकवहंसजुष्टाः पद्माकराः पुष्करिणीरपश्यन्
क्रीडाप्रदेशांश्च समृद्धरूपान्सवेदिकांस्ते न्यवसन्सुवेशान्
मणिप्रवीरान्सुमनोहरांश्च यथा भवेयुर्धनदस्य राज्ञः
अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैस्सन्ततमभ्रलेलिहैः
तपःप्रभावात् सततं चरन्तश्शृङ्गं गिरेश्चिन्तयितुं न शेकुः
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्
विभक्तरूपस्सविता बभूव निशामुखं प्राप्य नरर्षभाणाम्
समास्थितस्स्थावरजङ्गमानां विभावसुर्भावयिता हरीशः
तस्योदयं चास्तमयं च वीरास्तत्राऽऽश्रितास्ते ददृशुर्नृसिंहाः
रवेस्तमिस्रागमनिर्गमं च तथोदयं चास्तमयं च शूराः
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च
स्वाध्यायवन्तस्सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च
सत्येरितास्तस्य महारथस्य सत्यव्रतस्याऽऽगमनप्रतीक्षाः
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन
इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम्
बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः
यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितस्स जिष्णुः
तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम्
भ्रातुर्नियोगात्स युधिष्ठिरस्य यदा वनान्मत्तगजेन्द्रगामी
स काम्यकात्प्रव्रजितस्तदैव पार्थास्तदा शोकपरा बभूवुः
तथा तु तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम्
कालस्स कृच्छ्रेण महानतीतस्तस्मिन्नगे भारत भारतानाम्
ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम्
विद्युत्प्रभं प्रेक्ष्य नरर्षभाणां हर्षोऽर्जुनं चिन्तयतां बभूव
स दीप्यमानस्सहसाऽन्तरिक्षं प्रकाशयन्मातलिसङ्गृहीतः
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा
तमास्थितस्सन्ददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत्
धनञ्जयो वज्रधरप्रभावश्श्रिया ज्वलन्पर्वतमाजगाम
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्
धौम्यस्य पादावभिवाद्य पूर्वमजातशत्रोस्तदनन्तरं च
वृकोदरस्यापि ववन्द पादौ माद्रीसुताभ्यामभिवादितश्च
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः
बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समेत्य तत्र
स चापि तं प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्
यमास्थितस्सप्त जघान पूगान्दितेस्सुतानां नमुचेर्निहन्ता
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः
ते मातलेश्चक्रुरतीव हृष्टास्सत्कारमग्र्यं सुरराजतुल्यम्
सर्वं यथावच्च दिवौकसङ्घं पप्रच्छुरेनं कुरुराजपुत्राः
तानप्यसौ मातलिरभ्यनन्दत्पितेव पुत्राननुशिष्य चैनान्
ययौ रथेनाप्रतिमप्रभेण पुनस्सकाशं त्रिदिवेश्वरस्य
गते तु तस्मिन्वरदेववाहे शक्रात्मजस्सर्वरिपुप्रमाथी
साक्षात्सहस्राक्ष इव प्रतीतश्श्रीमान्स्वदेहादवमुच्य जिष्णुः
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति
दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे
ततस्स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयाम्बभूव
अर्जुनः-
एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वायोश्च शिवाच्च साक्षात्
तथैव शीलेन समाधिना च प्रीतास्सुरा मे सहितास्सहेन्द्राः
वैशम्पायनः-
सङ्क्षेपतो वै स विशुद्धकर्मा तेभ्यस्समाख्याय दिवः प्रदेशम्
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः