वैशम्पायनः-
ततस्सूर्योदये धौम्यः पाञ्चालीसहितांश्च तान्
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत
तेऽभिवाद्याऽऽर्ष्टिषेणस्य पादौ धौम्यस्य चैव ह
ततः प्राञ्जलयस्सर्वे ब्राह्मणांस्तानपूजयन्
आर्ष्टिषेणः परिष्वज्य पुत्रवद्भरतर्षभ
धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्
आर्ष्टिषेणः-
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति
शैलराजो महाराज मन्दरोऽभिविराजयन्
इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभितम्
एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च
ऋषयस्सर्वधर्मज्ञास्सर्वे तात मनीषिणः
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः
ऋषयश्चैव धर्मज्ञास्सिद्धास्साध्याश्च देवताः
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम्
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्
प्रेतराजस्य भवनमृद्ध्या परमया युतम्
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः
एनं पर्वतराजानं समुद्रं च महोदधिम्
आवसन्वरुणो राजा भूतानि परिरक्षति
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः
यस्मिन्ब्राह्मणसङ्घैश्च तिष्ठते वै प्रजापतिः
भूतात्मा विसृजन्सर्गं यत्किञ्चिज्जङ्गमागमम्
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसत्तमान्
तेषामपि महामेरुस्स्थानं शिवमनामयम्
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा
देशं विरजसं पश्य मेरोश्शिखरमुत्तमम्
आत्मतृप्तैर्यतैर्यत्र देवैस्सह पितामहः
यमाहुस्सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्
अनादिनिधनं देवं प्रभुं नारायणं परम्
ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते
देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शिवम्
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः
प्राच्यां नारायणस्थानं मेरावतिविराजते
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः
भासयन्सर्वभूतानि सुश्रियाऽतिविराजते
नात्र ब्रह्मर्षयस्तात नात्र देवर्षयस्तदा
प्राप्नुवन्ति गतिं ह्येनां यतीनां भावितात्मनाम्
नात्र ज्योतींषि सर्वाणि प्राप्य भासन्ति भारत
स्वयम्प्रभुरदीनात्मा तत्रैवाभिविराजते
यतयस्तत्र गच्छन्ति देवं नारायणं हरिम्
परेण तपसा युक्ता भाविताः कर्मभिश्शुभैः
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत
स्वयम्भुवं महात्मानं देवदेवं सनातनम्
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम्
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि
कुरुते हि तपः कर्म आदित्यो हि प्रदक्षिणम्
अस्तं प्राप्य ततस्सन्ध्यामतिक्रम्य दिवाकरः
उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु
सुमेरुमनुवृत्तस्स उपगच्छति पाण्डव
प्राङ्मुखस्सविता देवस्सर्वभूतहिते रतः
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु
तथैव भगवान्सोमो नक्षत्रैस्सह गच्छति
एवमेष परिक्रम्य महामेरुमतन्द्रितः
सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु
भासयन्सर्वभूतानि पुनर्गच्छति सागरम्
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत्
मार्गमेतमसम्बाधमादित्यः परिवर्तते
सिसृक्षुश्शिशिरं ह्येष दक्षिणां भजते दिशम्
ततस्सर्वाणि भूतानि कालश्शिशिरमृच्छति
स्थावराणां च भूतानां जङ्गमानां च तेजसा
तेजांसि समुपादत्ते निवृत्तस्स विभावसुः
ततस्स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्
प्राणिभिस्सततं स्वप्नानभीक्ष्णं पर्युपासते
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान्
पुनस्सृजति वर्षाणि भगवान्भासयन्प्रजाः
वृष्टिमारुतसम्पातैस्सुखैस्स्थावरजङ्गमान्
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः
प्रकर्षन्सर्वभूतानि सविता परिवर्तते
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव
आदायैव तु भूतानां तेजो विसृजते पुनः
विभजन्सर्वभूतानामायुः कर्म च भारत
अहोरात्रं कलाः काष्ठास्सृजत्येष सदा विभुः