धनदः-
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः
लोकतन्त्रविभागानामेष पञ्चविधो विधिः
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत
पराक्रमविभागज्ञा नराः कृतयुगेऽभवन्
धृतिमान्देशकालज्ञस्सर्वधर्मविभागवित्
क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै
य एवं वर्तते पार्थ पुरुषस्सर्वकर्मसु
स लोके लभते वीर यशः प्रेत्य च सद्गतिम्
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्
सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिस्सह
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते
कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति
अकालज्ञस्सुदुर्मेधाः कार्याणामविभागवित्
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्
सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्
तमिस्रां प्रथमां तत्र वीतशोकभयो वस
अलकां सह गन्धर्वैर्यक्षैश्च सह राक्षसैः
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः
रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः
साहसेषु च सन्तिष्ठंस्त्वया शैले वृकोदरः
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर
इतः परं च द्रक्ष्यन्ति राजेन्द्र वनगोचराः
उपस्थास्यन्ति वो राजन्रक्षिष्यन्ते च वस्सदा
तथैव चान्नपानानि स्वादूनि च बहूनि च
उपस्थास्यन्ति मत्प्रेष्यास्सदा वः पुरुषर्षभाः
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः
धर्मस्य त्वं यथा तात योगोत्पन्नो निजस्सुतः
आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाऽश्विनोः
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर
अर्थतत्त्वविभागज्ञस्सर्वधर्मविशेषवित्
भीमसेनादवरजः फल्गुनः कुशलो दिवि
याः काश्चन मता लोके रक्ष्याः परमसम्पदः
जन्मप्रभृति तास्सर्वास्स्थितास्तात धनञ्जये
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः
आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्
स शन्तनुर्महातेजाः पितुस्तव पितामहः
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः
पितॄन्देवांस्तथाऽऽदित्यान्पूजयित्वा महायशाः
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति
अधिराजस्स राजंस्त्वां शन्तनुः प्रपितामहः
स्वर्गजित्स्वर्गलोकस्थः कुशलं परिपृच्छति
वैशम्पायनः-
ततश्शक्तिं गदां खड्गं धनुश्च भरतर्षभः
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः
ततोऽब्रवीद्धनाध्यक्षश्शरण्यश्शरणागतम्
धनदः-
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः
विभयस्ताप शैलाग्रे वसानस्सह बन्धुभिः
सुपर्णपितृदेवानां सततं मानकृद्भव
ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम्
दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्
स्वेषु वेश्मसु सर्वेषु वसतामित्रतापनाः
कामानभिहरिष्यन्ति यक्षा वो भरतर्षभाः
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः
साक्षान्मघवतोत्सृष्टस्त्वां प्राप्स्यति धनञ्जयः
वैशम्पायनः-
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्
अस्तं गिरिमिवाऽऽदित्यः प्रययौ गुह्यकाधिपः
तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति
बभूव परमाश्वानामैरावतपथेयिनाम्
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम्
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम्
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात्
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता
समरे निहतास्तस्मात्सर्वे मणिमता सह
पाण्डवास्सुमहात्मानस्तेषु वेश्मसु तां क्षपाम्
सुखमूषुर्गतोद्वेगाः पूजितास्सह राक्षसैः