वैशम्पायनः-
श्रुत्वा बहुविधैश्शब्दैर्नाद्यमानां गिरेर्गुहाम्
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा
भीमसेनमपश्यन्तस्सर्वे विमनसोऽभवन्
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः
सहितास्सायुधाश्शूराश्शैलमारुरुहुस्तदा
ततस्सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः
ददृशुस्ते महेष्वासा भीमसेनमरिन्दमम्
पुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान्
महाबलान्महेष्वासान्भीमसेनेन पातितान्
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः
निहत्य समरे सर्वान्दानवान्मघवानिव
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम्
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत
लोकपालैर्महाभागैर्दिवं देववरैरिव
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्
भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः
युधिष्ठिरः-
साहसाद्यदि वा मोहाद्बीम पापमिदं कृतम्
नैतत्ते सदृशं वीर मुनेरिव मृषा वचः
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः
त्रिदशानामिदं द्विष्टं भीमसेन कृतं त्वया
अर्थधर्मावनादृत्य यः पापे कुरुते मनः
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम्
साहसं बत भद्रं ते देवानामपि चाप्रियम्
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
वैशम्पायनः-
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमुत्तमम्
भीमसेनं महाबाहुमप्रधृष्यपराक्रमम्
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः
विरराम महातेजास्तमेवार्थं विचिन्तयन्
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः
न्यस्तशस्त्रायुधाश्श्रान्ताश्शोणिताक्तपरिच्छदाः
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन्
राक्षसाः-
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः
राक्षसा निहतास्सर्वे तव देवपुरस्सराः
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर
एकेन निहतास्सङ्ख्ये गताः क्रोधवशा गणाः
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप
शेरते निहता देव गतसत्त्वाः परासवः
भग्नश्शैलो वयं भग्ना मणिमांस्ते सखा हतः
मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम्
वैशम्पायनः-
स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः
द्वितीयमपराध्यन्तं भीमं श्रुत्वा नराधिप
चुक्रोध यक्षाधिपतिर्युध्यतामिति चाब्रवीत्
अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम्
हयैस्संयोजयामासुर्गर्न्धैरुत्तमं रथम्
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः
तेजोबलजवोपेता नानारत्नविभूषिताः
शोभमाना रथे युक्तास्तरिष्यन्त इवाऽऽशुगाः
ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम्
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः
स तमास्थाय भगवान्राजराजो महारथम्
प्रययौ देवगन्धर्वैस्स्तूयमानो महाद्युतिः
तं प्रयान्तं महात्मानं सर्वे यक्षा नराधिप
अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः
रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः
सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः
ते जवेन महावेगाः प्लवमाना विहायसम्
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्
तत्केसरिमहाजालं धनाधिपतिपालितम्
रम्यं चैव गिरेश्शृङ्गमासेदुर्यत्र पाण्डवाः
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान्
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा
सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः
देवकार्यं करिष्यन्ति हृदयेन तुतोष ह
ते पक्षिण इवाऽऽपेतुर्गिरिशृङ्गं महाजवाः
तस्थुस्तेषां सकाशे वै धनेश्वरपुरस्सराः
ततस्संहृष्टमनसः पाण्डवान्प्रति भारत
समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्
नकुलस्सहदेवश्च धर्मपुत्रश्च धर्मवित्
अपराद्धमिवाऽऽत्मानं मन्यमाना महारथाः
तस्थुः प्राञ्जलयस्सर्वे परिवार्य धनेश्वरम्
शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः
तमासीनं महाकायाश्शङ्कुकर्णा महाजवाः
उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः
परिवार्योपतिष्ठन्ति यथा देवाश्शतक्रतुम्
काञ्चनीं शिरसा बिभ्रद्भीमसेनस्स्रजं शिवाम्
बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम्
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः
आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः
आददानं शितान्बाणान्योद्धुकाममवस्थितम्
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः
कुबेरः-
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्
निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव
कालेनैते हताः पूर्वं निमित्तमनुजस्तव
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम्
दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम्
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ
कर्मणाऽनेन भीमस्य मम तुष्टिरभूत्पुरा
वैशम्पायनः-
स एवमुक्त्वा राजानं भीमसेनमभाषत
कुबेरः-
नैतन्मनसि मे तात वर्तते कुरुसत्तम
यदिदं साहसं भीम कृष्णार्थे कृतवानसि
मामनादृत्य देवांश्च विनाशयति राक्षसान्
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि
शापाच्चाहं विमुक्तोऽद्य घोरादस्माद्वृकोदर
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम्
दृष्टो धर्मे परिक्लेशः पुरा पाण्डवनन्दन
तवात्र नापराधोऽस्ति किञ्चिदपि शत्रुहन्
युधिष्ठिरः-
कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना
श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम्
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः
तदैव त्वं न निर्दग्धस्सबलस्सपदानुगः
कुबेरः-
देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर
वृतस्तत्राहमगमं महापद्मशतैर्वृतः
यक्षाणां घोररूपाणां विविधायुधधारिणाम्
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम्
उग्रं तपस्तपस्यन्तं नानाद्रुमविभूषितम्
यमुनातीरमाश्रित्य पुण्यं देवर्षिसङ्कुलम्
अथोर्ध्वबाहुं दृष्ट्वा तमगस्त्यमृषिसत्तमम्
तेजोराशिं दीप्यमानं हुताशनमिवैधितम्
राक्षसाधिपतिश्श्रीमान्मणिमान्नाम मे सखा
मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि
ततः क्रुद्धस्स भगवानुवाचेदं तपोधनः
अगस्त्यः-
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव
धर्षणं कृतवानेतत् पश्यतस्ते धनेश्वर
तस्मात्सहैभिस्सैन्यैस्तैर्वधं प्राप्स्यति मानुषात्
त्वं चाप्येभिर्हतैस्सैन्यैः क्लेशं प्राप्नुहि दुर्मते
तमेव मानुषं दृष्ट्वा किल्विषाद्विप्रमोक्ष्यसे
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्
न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति
कुबेरः-
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात्
स भीमेन महाराज भ्रात्रा तव विमोक्षितः