जनमेजयः-
पाण्डोः पुत्रा महात्मानस्सर्वे दिव्यपराक्रमाः
कियन्तं कालमवसन्पर्वते गन्धमादने
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम
विस्तरेण च मे शंस भीमसेनपराक्रमम्
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ
न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम
धनदाध्युषिते नित्यं वसतस्तत्र पर्वते
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्
वैशम्पायनः-
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः
शासनं सततं चक्रुस्तथैव भरतर्षभाः
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च
शुद्धबाणहतानां च मृगाणां पिशितानि च
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च
रसायनसमृद्धानि तत्रोषुस्ते स्म भारताः
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्
शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः
राक्षसैस्सहितस्सर्वैः पूर्वमेव गतः प्रभो
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम्
तत्रैव रममाणैश्च विहरद्भिश्च पाण्डवैः
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः
एतैस्सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः
ततः कतिपयाहस्सु महाह्रदनिवासिनम्
ऋद्धिमन्तं महानागं सुपर्णस्सहसाऽहरत्
प्राकम्पत महाशैलः प्रादह्यन्त महाद्रुमाः
ददृशुस्सर्वभूतानि पाण्डवाश्च तदद्भुतम्
ततश्शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च
तत्र पुष्पाणि दिव्यानि सुहृद्भिस्सह पाण्डवाः
ददृशुस्सर्वभूतानि द्रौपदी च यशस्विनी
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्
द्रौपदी-
सुपर्णानिलवेगेन श्वसनेन महाबल
पञ्चवर्णानि पात्यन्ते पुष्पाणि च फलानि च
दिव्यवर्णानि दिव्यानि दिव्यगन्धवहानि च
मदयन्तीव गन्धेन मनो मे भरतर्षभ
येषां च दर्शनात्स्पर्शात्सौरभ्याच्च तथैव च
नश्यतीव मनोदुःखं ममेदं शत्रुतापन
असमैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैश्शुभैः
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम्
गन्धसंस्थानसम्पन्नं मम मानसवर्धनम्
प्रत्यक्षं सर्वलोकस्य न ह्यदृश्यत मां प्रति
वासुदेवसहायेन वासुदेवप्रियेण च
खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर
गन्धर्वोरगरक्षांसि वासवश्च पराजितः
हता मायाविनश्चोग्रं धनुः प्राप्तं च गाण्डिवम्
तवापि सुमहत्तेजो महद्बाहुबलं च ते
अविषह्यमनाधृष्यं शक्रतुल्यबलोपमम्
त्वद्बाहुबलवेगेन त्रासितास्सर्वराक्षसाः
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश
ततश्शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्
व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता
इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम्
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम
वैशम्पायनः-
ततः क्षिप्तमिवाऽऽत्मानं द्रौपद्या स परन्तपः
नामृष्यत महाबाहुः प्रहारमिव सद्गजः
सिंहर्षभगतिश्श्रीमानुदारः कनकप्रभः
मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः
सिंहदंष्ट्रो वृषस्कन्धस्सालपोत इवोद्गतः
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाहनुः
रुक्मपृष्ठं धनुः खड्गं तूणी चापि परामृशन्
केसरीव बलोत्सिक्तः प्रभिन्न इव वारणः
व्यपेतभयसम्मोहश्शैलमभ्यपतद्बली
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्
ददृशुस्सर्वभूतानि पार्थं खड्गधनुर्धरम्
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः
व्यपेतभयसम्मोहश्शैलराजं समाविशत्
न ग्लानिर्न च कातर्यं न वैक्लब्यं न मत्सरः
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः
तदेकायनमासाद्य विषमं भीमदर्शनम्
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः
स किन्नरमहानागमुनिगन्धर्वराक्षसान्
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः
ततो वैश्रवणावासं ददर्श भरतर्षभः
काञ्चनस्फटिकाकारैर्वेश्मभिस्समलङ्कृतम्
ह्लादयन्सर्वभूतानि गन्धमादनसम्भवः
सर्वगन्धवहस्तत्र मारुतस्सुखशीतलः
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम्
राक्षसाधिपतेस्स्थानं ददृशे भरतर्षभः
गदाखड्गधनुष्पाणिस्समभित्यक्तजीवितः
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः
ततश्शङ्खमुपाध्माय द्विषतां रोमहर्षणम्
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत्
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वथाः
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः
ततः प्रववृते युद्धं तेषां तस्य च भारत
संरब्धानां महाघोषं सिंहानामिव नर्दताम्
तैः प्रमुक्तान्महाकायान्शूलशक्तिपरश्वथान्
भल्लैर्भीमः प्रचिच्छेद भीमवेगबलस्तदा
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्
शरैर्विव्याध गात्राणि राक्षसानां महाबलः
शोणितस्य ततः पेतुर्घनानामिव भारत
गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः
सा लोहितमहावृष्टिरभ्यवर्षन्महाचलम्
कायेभ्यः प्रच्युता घोरा राक्षसानां समं तदा
गदापरिघपाणीनां रक्षसां कायसम्भवा
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम्
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्
ददृशुस्सर्वभूतानि सूर्यमभ्रगणैरिव
स रश्मिभिरिवादित्यश्शरैर्मर्मविदारणैः
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः
अभितर्जयमानाश्च रुवन्तश्च महारवान्
सन्नाहं भीमसेनस्य ददृशुस्सर्वराक्षसाः
ते हि विक्षतसर्वाङ्गा भीमसेनबलार्दिताः
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान्
दक्षिणां दिशमाजग्मुस्त्रासिता स्थिरधन्वना
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः
सखा वैश्रवणस्याऽऽसीन्मणिमान्नाम राक्षसः
दर्शयन्स प्रतीकारं पौरुषं च महाबलः
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत्
राक्षसः-
एकेन बहवस्सङ्ख्ये मानुषेण पराजिताः
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम्
वैशम्पायनः-
एवमाभाष्य तान्सर्वानभ्यवर्तत राक्षसः
शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम्
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनस्समार्पयत्
मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम्
प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्
शरैर्बहुभ्यघ्नत् भीमसेनश्शिलाशितैः
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः
न वेगं धारयामासुर्गदावेगस्य तस्य वै
गदायुद्धसमाचारान् युध्यमानस्स वीर्यवान्
व्यथयामास तत्रस्थः प्रहारैर्भीमविक्रमः
ततश्शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्
तस्मिन्नेवान्तरे तस्मै प्रचिक्षेप स राक्षसः
सा भुजं भीमसङ्काशं भित्त्वा भीमस्य दक्षिणम्
साग्निज्वाला महारौद्रा पपात सहसा भुवि
सोऽतिविद्धो महेष्वासश्शक्त्याऽमितपराक्रमः
गदां जग्राह कौरव्यो गदायुद्धविशारदः
तां प्रगृह्योन्नदन्भीमश्शैक्यां सर्वायसीं गदाम्
तरसा चाभिदुद्राव मणिमन्तं महाबलम्
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि
प्राहिणोद्भीमसेनाय वेगेन महता नदन्
हत्वा शूलं गदाग्रेण गदायुद्धविभागवित्
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम्
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम्
प्रचिक्षेप महाबाहुर्निनदन् रणमूर्धनि
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह
तं राक्षसं भीमबलं भीमसेनबलाहतम्
ददृशुस्सर्वभूतानि सिंहेनेव महाद्विपम्
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति