वैशम्पायनः-
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्
अभ्यवादयत प्रीतश्शिरसा नाम कीर्तयन्
ततः कृष्णा च भीमश्च यमौ चापि तपस्विनौ
शिरोभिः प्राप्य राजर्षिं प्रणिपत्योपतस्थिरे
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः
यथान्यायमुपागम्य तमृषिं संशितव्रतम्
अनुजानन्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत्
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्
आर्ष्टिषेणः-
नानृते कुरुषे भावं कच्चिद्धर्मेषु वर्तसे
मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति
कच्चित्ते गुरवस्सर्वे वृद्धा वैद्याश्च पूजिताः
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु
सुकृतं प्रति कर्तुं च कच्चित्क्षन्तुं च दुष्कृतम्
यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे
यथा सम्मानिताः कच्चित्त्वया नन्दन्ति साधवः
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते
दानधर्मतपश्शौचैरार्जवेन तितिक्षया
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः
पितरः पितृलोकस्थाश्शोचन्ति च रमन्ति च
किं त्वस्य दुष्कृतेऽस्माभिस्सम्प्राप्तव्यं भविष्यति
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यामपि शोभनम्
पिता माता तथा चाग्निर्गुरुरात्मा च पञ्चमः
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसम्
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु
कामिनस्सह कान्ताभिः परस्परमनुव्रताः
दृश्यन्ते शैलशृङ्गस्था यथा किम्पुरुषा नृप
अरजांसि च वासांसि वसानाः कौशिकानि च
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः
महोरगगणाश्चैव सुपर्णाश्चारणादयः
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु
भेरीपणवशङ्खानां मृदङ्गानां च निस्स्वनः
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः
न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः
न चाप्यतः परं गन्तुं शक्यं भरतसत्तमाः
विहारस्तत्र देवानाममानुषगतिस्तथा
ईषच्चपलकर्माणं मनुष्यमिह भारत
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः
अस्यातिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर
गतिः परमसिद्धानां देवर्षीणां प्रकाशते
चापलाद्धि न गन्तव्यं पार्थ यानमतः परम्
अयश्शूलादिभिर्घ्नन्ति राक्षसाश्शत्रुसूदन
अप्सरोभिः परिवृतस्समृद्ध्या नरवाहनः
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते
शिखरे तं समासीनमधिपं यक्षरक्षसाम्
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्
देवदानवसिद्धानां तथा वैश्रवणस्य च
गिरेश्शिखरमुद्यानमिदं भरतसत्तम
उपासीनस्य सततं तुम्बुरोः पर्वसन्धिषु
गीतसान्द्रध्वनिस्तात श्रूयते गन्धमादने
एतदेवंविधं चित्रमिह तात युधिष्ठिर
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु
भुञ्जानास्सर्वभूतानि रसवन्ति फलानि च
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम्
न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन
चपलस्सर्वभूतानां द्वेष्यो भवति मानवः
इहोषित्वा यथाकामं यथाश्रद्धं विहृत्य च
ततश्शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि