वैशम्पायनः-
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः
युधिष्ठिरः-
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः
द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम्
समाश्चतस्रोऽधिगताश्शिवेन चरता वने
कृतोद्देशश्च बीभत्सुः पञ्चमीमभितस्समाम्
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्
तत्रापि च कृतोद्देशस्समागमदिदृक्षुभिः
कृतश्च समयस्तेन पार्थेनामिततेजसा
पञ्च वर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि
अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्
वैशम्पायनः-
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः
कारणं चैव तत्तेषामाचचक्षे तपस्विनाम्
तमुग्रतपसं प्रीताः कृत्वा पार्थं प्रदक्षिणम्
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च
ब्राह्मणाः-
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि
वैशम्पायनः-
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः
द्रौपद्या सहितश्श्रीमान्हैडिम्बेयादिभिस्तदा
राक्षसैरनुयातश्च लोमशेनाभिरक्षितः
क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुह्यते क्वचित्
तत्र तत्र महातेजा भ्रातृभिस्सह सुव्रतः
ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन्
सिंहव्याघ्रमृगाकीर्णामुदीचीं प्रययौ दिशम्
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम्
उपर्युपरि शैलस्य बह्वीश्च सरितश्शिवाः
प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात्
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते
सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः
समावृतं पुण्यतममाश्रमं वृषपर्वणः
तमुपक्रम्य राजर्षिं धर्मात्मानमरिन्दमाः
पाण्डवा वृषपर्वाणमविदन्त गतक्लमाः
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्
पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः
अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम्
आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन्
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्
ततस्ते वरवस्त्राणि शुभान्याभरणानि च
निदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः
अतीतानागते पश्चात्कुशलस्सर्वधर्मवित्
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान्
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्
कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन्
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा
अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च
वृषपर्वा निववृते पन्थानमुपदिश्य च
नानामृगगणैर्जुष्टं कौन्तेयस्सत्यविक्रमः
पदातिर्भ्रातृभिस्सार्धं प्रातिष्ठत युधिष्ठिरः
नानाद्रुमनिरोधेषु वसन्तश्शैलसानुषु
पर्वतं विविशुश्श्वेतं चतुर्थेऽहनि पाण्डवाः
महाभ्रघनसङ्काशं सलिलोपहितं शुभम्
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम्
रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम्
शिलाविभङ्गविकटं लतापादपसङ्कुलम्
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा
अनुसस्रुर्यथोद्देशम् पश्यन्तो विविधान्नगान्
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः
समाविशन्तो बह्वीश्च सुखेनैवातिचक्रमुः
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः
अगमन्सहितास्तत्र न कश्चिदपि हीयते
ते मृगद्विजसङ्घुष्टं नानाद्वीपिसमाकुलम्
शाखामृगगणैश्चैव सेवितं सुमनोरमम्
पुण्यं पद्मवनोपेतं सपल्वलमहावनम्
उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम्
ततः किम्पुरुषावासं सिद्धचारणसेवितम्
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्
विद्याधरानुचरितं किन्नरीभिस्तथैव च
गजसिंहसमाकीर्णं काननं शरभायुतम्
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः
ते गन्धमादनवनं तन्नन्दनवनोपमम्
मुदिताः पाण्डुतनया मनोहृदयनन्दनम्
विविशुः क्रमशो वीरा हिरण्यं शुभकाननम्
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः
शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान्
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान्
पश्यन्तः पादपांश्चैव फलभारावनामितान्
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्
अजातकांस्तथाऽभीरान्दाडिमान्बीजपूरकान्
पनसाँल्लिकुचान्मोचान् खर्जूरानम्लवेतसान्
परावतांस्तथा क्षौद्रान्पुन्नागान्वितुलानपि
बिल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा
प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा
भल्लातकानामलकान्हरीतकबिभीतकान्
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान्
एतानन्यांश्च विविधान्गन्धमादनसानुषु
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून्
तथैव चम्पकाशोकान्केतकान्वकुलांस्तथा
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकङ्कतान्
पाटलान्कुटजान्रम्यान्मन्दारान्दीपकांस्तथा
पारिजातान्कोविदारान्देवदारुतरूंस्तथा
सालांस्तालांस्तमालांश्च प्रियालान्वकुलांस्तथा
शाल्मलीः किंशुकाशोकान्करविन्दांश्च शिंशुपान्
चकोरैश्शतपत्रैश्च भृङ्गराजैस्तथा शुकैः
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः
प्रियव्रतैश्चातकैश्च तथाऽन्यैर्विविधैः खगैः
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान्
सरांसि च विचित्राणि समन्ताज्जलचारिभिः
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः
कह्लारैः कमलैश्चैव आचितानि समन्ततः
कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः
कारण्डवैः प्लवैर्हंसैर्वल्गुस्वरनिनादिभिः
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः
हृष्टैस्तथा तामरसरसासवमदालसैः
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः
मधुस्वरैर्मधुकरैर्विरुतान्कमलोत्करान्
पश्यन्तस्ते मनोरम्यान् गन्धमादनसानुषु
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः
शिखण्डिनीभिस्सहिताँल्लतामण्डपकेषु च
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम्
श्रुत्वैव केकाविरुतं सङ्गीतं मधुरस्वरम्
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान्
मयूरान्ददृशुश्चित्रान्नृत्यतो वनलालसान्
कान्ताभिस्सहितान्वश्यानपश्यन्रमतस्सुखम्
वल्लीलताकण्टकेषु कटकेषु स्थितांस्तथा
कांश्चिच्छकुनजातांस्ते विटपेषूत्कटानिव
कलापरचिताटोपान्विचित्रमकुटानपि
विवरेषु तरूणां च रुचिरान्ददृशुश्च ते
सिन्धुवारानथोदारान्मन्मथस्येव तोमरान्
सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च
कर्णिकारान्विचित्रभान्कर्णपूरानिवोत्तमान्
अथाऽपश्यन्कुरवकान्वनराजिषु पुष्पितान्
कामवश्योत्सुककरांस्तथैव वनराजिषु
तांस्त्वलङ्कारमधुरान्सहितान्सुमनोहरान्
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव
तथा कामशराकारान्सहकामान्मनोरमान्
अपश्यन्भ्रमराकीर्णान्मञ्जरीभिर्विराजितान्
हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि
लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि
तथा सालांस्तमालांश्च पाटलीर्बकुलांस्तथा
माला इव समासक्ताञ्शैलानां शिखरेषु च
एवं क्रमेण ते वीरा वीक्षमाणास्समन्ततः
ययुर्नागसमाबाधं सिंहव्याघ्रसमाकुलम्
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु
पीता भास्वरवर्णाभा बभूवुर्वनराजयः
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः
राजहंसैरुपेतानि सारसाभिरुतानि च
सरांसि सरसाः पार्थाः पश्यन्तश्शैलसानुषु
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च
गन्धवन्ति च माल्यानि रसवन्ति फलानि च
अतीव वृक्षा राजन्ते पुष्पिताश्शैलसानुषु
एते चान्ये च बहवस्तत्र काननजा द्रुमाः
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः
नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः
स्निग्धपत्रफला वृक्षाः पर्वते गन्धमादने
गजसङ्घसमाकीर्णं सिंहव्याघ्रसमाकुलम्
शरभोन्नादसङ्घुष्टं नानाविहगनादितम्
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु
पीता भास्करवर्णाभा बभूवुर्वनराजयः
युधिष्ठिर्सतु तान्वृक्षान् पश्यमानो नगोत्तमे
भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम्
युधिष्ठिरः-
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः
अमानुषीं गतिं प्राप्तास्संसिद्धास्स्म वृकोदर
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्
नदतां शृणु निर्घोषं भीम पर्वतसानुषु
चकोराश्शतपत्राश्च मत्तकोकिलशारिकाः
पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान्
रक्तपीतारुणाः पार्थ पादपाग्रगताः द्विजाः
परस्परमुदीक्षन्ते बहवो जीवजीवकाः
हरितारुणवर्णानां शाड्वलानां समन्ततः
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि
वदन्ति मधुरा वाचस्सर्वभूतमनोनुगाः
भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः
चतुर्विषाणाः पद्माङ्काः कुञ्जरास्सकरेणवः
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः
बहुतालसमुत्सेधाश्शैलशृङ्गात्परिच्युताः
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्युत
भास्कराभप्रभा भीमाश्शारदाभ्रघनोपमाः
शोभयन्ति महाशैलं नानारजतधातवः
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः
धातवो हरितालस्य क्वचिद्धिङ्गुलकप्रभाः
मनश्शिलागुहाश्चैव सन्ध्याभ्रशिखरोपमाः
शशलोहितवर्णाभाः क्वचिद्गैरिकसप्रभाः
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः
एते बहुविधाश्शैलं शोभयन्ति महाप्रभम्
गन्धर्वास्सह कान्ताभिर्यथेष्टं भीमविक्रमाः
दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैस्सह
गीतानां करतालानां तथा साम्नां च निस्स्वनः
श्रूयते बहुधा भीम सर्वमूतमनोहरः
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम्
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम्
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः
व्यालैश्च विविधाकारैश्शतशीर्षैस्समन्ततः
उपेतं पश्य कौन्तेय शैलराजमरिन्दम
वैशम्पायनः-
ते प्रीतमनसस्सर्वे प्राप्ता गतिमनुत्तमाम्
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा
ततस्तं तीव्रतपसं कृशं धमनिसन्ततम्
पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन्