वैशम्पायनः-
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्
गतेषु तेषु रक्षस्सु भीमसेनात्मजेऽपि च
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया
जहार धर्मराजं वै यमौ कृष्णां च राक्षसः
ब्राह्मणो मन्त्रकुशलस्सर्वास्त्रेष्वस्त्रवित्तमः
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा
परीप्समानः पार्थानां कलापांश्च धनूंषि च
अन्तरं सम्परिप्रेप्सुर्नाम्ना ख्यातो जटासुरः
स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दम
अन्यद्रूपं समास्थाय विकृतं भैरवं महत्
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च
प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान्
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः
आक्रन्दद्भीमसेनं वै येन यातो वृकोदरः
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः
युधिष्ठिरः-
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगतास्सदा
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि
समृद्धस्यास्य लोकस्य लोको युष्माकमृध्यते
शोचन्तमन्विमं लोकमनुशोचन्ति देवताः
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतस्सुखम्
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि
अणुरप्यपकारश्च नास्त्यस्माकं नराशन
योद्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानस्सुखोषितः
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि
एवमेव वृथाचारो वृथा वृद्धो वृथामतिः
वृथा मरणमर्हस्त्वं वृथाऽद्य न भविष्यसि
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम्
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया
वैशम्पायनः-
ततो युधिष्ठिरस्तस्य भारकस्समपद्यत
स तु भाराभिभूतत्वान्न तथा शीघ्रगोऽभवत्
अथाब्रवीत्स नकुलं द्रौपदीं च युधिष्ठिरः
युधिष्ठिरः-
मा भैष्ट राक्षसो मूढो गतिरस्य मया हृता
नातिदूरे महाबाहुर्भविता पवनात्मजः
अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः
वैशम्पायनः-
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम्
सहदेवः-
राजन्किन्नाम तत्कृत्यं क्षत्रियस्य ततोऽधिकम्
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा
एष वाऽस्मान्वयं वैनं युध्यमानाः परन्तप
सूदयेम महाबाहो देशः कालो ह्ययं नृप
क्षत्रधर्मस्य सम्प्राप्तस्तूर्णं स च हनिष्यते
जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम्
राक्षसे जीवमाने तु रविरस्तमियाद्यदि
नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः
हत्वा वा मां नयस्वैनां हतो वा स्वप्स्यसीह वै
वैशम्पायनः-
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया
प्रादृश्यत महाबाहुस्सवज्र इव वासवः
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्
भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम्
हृतान्सन्दृश्य तान्भ्रातॄन्द्रौपदीं च महाबलः
क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत्
भीमसेनः-
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्
प्रिये च रममाणं त्वां न चैवाप्रियकारिणम्
ब्रह्मरूपेण पिहितं नैव हन्यामनागसम्
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत्
अपक्वस्य च कालेन वधस्तव न विद्यते
कालपक्व इदानीं त्वं यथा ते मतिरीदृशी
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा
स त्वं कालं समासाद्य तथा तु न भविष्यसि
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः
मत्स्योऽम्भसीव सूत्रस्थः कथमद्य गमिष्यसि
यतोऽसि प्रस्थितो देशं मनः पूर्वं गतं च ते
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः
वैशम्पायनः-
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः
जटासुरः-
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम्
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम्
वैशम्पायनः-
एवमुक्तस्तदा भीमस्सृक्किणी परिलेलिहन्
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः
ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम्
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्
अभिदुद्राव सङ्क्रुद्धो बलो वज्रधरं यथा
भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः
राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत
वर्तमाने तथा राजन्बाहुयुद्धे सुदारुणे
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम्
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम्
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्
बाहुभिस्समसज्जेतामुभौ रक्षोवृकोदरौ
तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः
अमृष्यमाणयोस्सङ्ख्ये शक्रशम्बरयोरिव
तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम्
जीमूताविव धर्मान्ते विनदन्तौ महाबलौ
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः
आविध्याऽऽविध्य तौ वृक्षान्मुहूर्तमितरेतरम्
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः
तस्मिन्देशे यदा वृक्षास्सर्व एव निपातिताः
पूगीकृताश्च शतशः परस्परवधेप्सया
ततश्शिलास्समादाय मुहूर्तमिव भारत
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम्
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव
मुष्टिभिश्च महाघातैरन्योन्यमभिपेततुः
तयोश्चटचटाशब्दो बभूव सुमहात्मनोः
ततस्संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्
ततश्श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्
सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत
तत एनं महाबाहुर्बाहुभ्याममरोपमः
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले
ततस्सम्पीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः
अरत्निना चाभिहत्य शिरः कायादपहरत्
सन्दष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्
जटासुरस्य शीर्षं तु भीमसेनबलोद्धृतम्
पपात रुधिरादिग्धं सन्दष्टदशनच्छदम्
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः