वैशम्पायनः-
तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः
आमन्त्र्य सहितान्भ्रातॄनित्युवाच सह द्विजैः
युधिष्ठिरः-
दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च
मनसो ह्लादनीयानि वनानि च पृथक्पृथक्
देवैस्सर्वाणि तीर्थानि मुनिभिश्च महात्मभिः
यथाक्रममशेषेण द्विजैस्सम्पूजितानि च
ऋषीणां धर्मचरितं तपोधर्मविचेष्टितम्
यथाक्रमं विशेषेण लोमशेन प्रभाषितम्
तेषु रम्येषु तीर्थेषु सरित्सु च सरस्सु च
इरा सरस्वती सिन्धुर्यमुना नर्मदा तथा
तासां ह्रदेषु पुण्येषु उपस्पृश्य द्विजैश्शुभैः
हिमवान्पर्वतश्चैव नानाद्विजगणायुतः
विशाला बदरी दृष्टा नरनारायणाश्रमे
यथाक्रमविशेषेण सर्वाण्यायतनानि च
दर्शितानि द्विजेन्द्रेण लोमशेन महात्मना
इमं वैश्रवणावासं दुर्गमं गन्धमादनम्
कथं भीम गमिष्यामो मतिरत्र विधीयताम्
वैशम्पायनः-
एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी
अशरीरिणी-
अशक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः
अनेनैव पथा राजन्प्रतिगच्छ यथागतम्
नरनारायणस्थानं बदरीत्यभिविश्रुतम्
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः
तस्माद्गच्छाद्य कौन्तेय सिद्धचारणसेवितम्
अतिक्रम्य च तत्पार्थ आर्ष्टिषेणाऽऽश्रमं व्रज
ततो द्रक्ष्यसि कौन्तेय निवासं धनदस्य च
वैशम्पायनः-
एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहश्शुभः
मनःप्रह्लादनश्शीतः पुष्पवर्षं ववर्ष वै
तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयस्समपद्यत
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः
धौम्यः-
श्रुत्वा तु महदाश्चर्यं द्विजो धौम्योऽभ्यभाषत
न शक्यमुत्तरं गन्तुं प्रतिगच्छाम भारत
वैशम्पायनः-
ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः
भीमसेनादिभिस्सर्वैर्भ्रातृभिः परिवारितः
पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा