भीमसेनः-
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः
विशालां बदरीं प्राप्तो भ्रातृभिस्सह राक्षसाः
अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम्
अतीव लोभदेतानि सा बहूनि परीप्सति
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रियेप्सितम्
पुष्पहारमनुप्राप्तं निबोधत निशाचराः
राक्षसाः-
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर
आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव
यक्षाधिपस्यानुमते कुबेरस्य महात्मनः
अन्यायेनेह यः कश्चिदवमत्य धनेश्वरम्
विहर्तुमिच्छेद्दुर्वृत्तस्स विनश्येदसंशयम्
तमनादृत्य पद्मानि जिहीर्षसि बलादिह
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्
भीमसेनः-
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके
दृष्ट्वाऽपि च महाराजं नाहं याचितुमुत्सहे
न हि याचन्ति राजानो धर्म एष सनातनः
न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन
इयं च नलिनी रम्या जाता पर्वतनिर्झरे
नेयं भवनमासाद्य कुबेरस्य महात्मनः
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति
वैशम्पायनः-
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत
तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः
ततस्स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्
मा मैवमिति सक्रोधैर्भर्त्सयद्भिस्समन्ततः
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्
गृह्णीत बध्नीत निकृन्ततैनं पचाम खादाम च भीमसेनम्
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः
ततस्स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टबद्धाम्
प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति
ते तं तदा तोमरपट्टसाद्यैर्व्याविद्धशस्त्रैस्सहसा निपेतुः
जिघांसवः क्रोधवशास्सुभीता भीमं समन्तात्परिवव्रुरुग्राः
वातेन कुन्त्यां बलवान्सुजातश्शूरस्तरस्वी द्विषतां निहन्ता
सत्ये च धर्मे च रतस्सदैव पराक्रमे शत्रुभिरप्रधृष्यः
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शात्रवाणाम्
यथा प्रवीरान्निजघान वीरः परश्शतान्पुष्करिणीसमीपे
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव
अशक्नुवन्तस्सहितं समर्था हतप्रवीरास्सहसा निवृत्ताः
विदीर्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसञ्ज्ञाः
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः
स शक्रवद्दानवदैत्यसङ्घान्विक्रम्य जित्वा च रणेऽरिसङ्घान्
विगाह्य तां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि
ततस्स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः
उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति
ततस्तु ते क्रोधवशास्समेत्य धनेश्वरं भीमबलप्रणुन्नाः
भीमस्य वीर्यं च बलं च सङ्ख्ये यथावदाचख्युरतीव दीनाः
तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच
कुबेरः-
गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत्
वैशम्पायनः-
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम्