वैशम्पायनः-
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम्
कैलासशिखरे रम्ये ददर्श शुभकानने
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरे
सुरम्यां विपुलच्छायां नानाद्रुमलतायुताम्
हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम्
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्
तत्रामृतरसं शीतं लघु कुन्तीसुतश्शुभम्
ददर्श विमलं तोयं शिवं बहु च पाण्डवः
तां तु पुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम्
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः
हंसकारण्डवोद्धूतैस्सृजद्भिरमलं रजः
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः
गन्धर्वैरप्सरोभिश्च देवैश्च परिवारिताम्
सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा
राक्षसैः किन्नरैश्चैव गुप्तां वैश्रवणेन च
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः
बभूव परमप्रीतो दिव्यं प्रेक्ष्य सरो महत्
तच्च क्रोधवशा नाम राक्षसा राजशासनात्
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिन्दमम्
पुष्करेप्सुमथायान्तमन्योन्यमभिचुक्रुशुः
अयं स पुरुषव्याघ्रस्सायुधोऽजिनसंवृतः
यच्चिकीर्षुरनुप्राप्तस्तत्कार्यं प्रष्टुमर्हथ
ततस्सर्वे महाबाहुं समासाद्य वृकोदरम्
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे
यदर्थमाभिसम्प्राप्तस्तदाचक्ष्व महाद्युते