वैशम्पायनः-
ततस्संहृत्य विपुलं तद्वपुः कामवर्धितम्
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः
परिष्वक्तस्य तस्याऽऽशु भ्रात्रा भीमस्य भारत
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्
ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममासाद्य सौहार्दाद्बाष्पगद्गदया गिरा
हनूमान्-
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे
इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित्
धनदस्याऽऽलयाच्चापि विसृष्टानां महाबल
एष काल इहाऽऽयातुं देवगन्धर्वयोषिताम्
ममापि सफलं चक्षुस्स्मारितश्चास्मि राघवम्
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्
शिलया नगरं वा तन्मर्दितव्यं मया यदि
यावदद्य करोम्येतत्कामं तव महाबल
वैशम्पायनः-
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना
भीमसेनः-
कृतमेव त्वया सर्वं मम वानरपुङ्गव
स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीद मे
सनाथाः पाण्डवास्सर्वे त्वया नाथेन वीर्यवन्
तवैव तेजसा सर्वान्हनिष्यामो वयं परान्
वैशम्पायनः-
एवमुक्तस्तु हनुमान्भीमसेनमभाषत
भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम्
चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम्
यदा सिंहरवं वीर करिष्यसि महाबल
तदाऽहं बृंहयिष्यामि स्वरेणैव परन्तप
यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे
विजयस्य ध्वजस्थस्सन् नादान्मोक्ष्यामि दारुणान्
शत्रूणां ये प्राणहरानित्युक्त्वाऽन्तरधीयत
गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ
स तानि रमणीयानि वनान्युपवनानि च
विलोलयामास तदा सौगन्धिकवनेप्सया
फुल्लपद्मविचित्राणि पुष्पितानि वनानि च
नानाविहगजुष्टानि पश्यति स्म समन्ततः
मत्तवारणयूथानि पङ्कक्लिन्नानि भारत
वर्षतामिव मेघानां बृन्दानि ददृशे तदा
हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वने
सशष्पकबलैश्श्रीमान्पथि दृष्ट्वा द्रुतं ययौ
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः
प्रियतीर्था महामार्गे पद्मिनीस्सोऽतिचक्रमे
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु
द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः
विनिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने
काञ्चनैर्विपुलैः पद्मैर्ददर्श विपुलां नदीम्
मत्तकारण्डवयुतां चक्रवाकोपशोभिताम्
रचितामिव तस्याद्रेर्मालां विपुलपङ्कजाम्
तस्यां नद्यां महासत्त्वस्सौगन्धिकवनं महत्
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति
तद्दृष्ट्वा लब्धकामस्स मनसा पाण्डुनन्दनः
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्