हनूमान्-
हृतदारस्सह भ्रात्रा पत्नीं मार्गन्स राघवः
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्
तेन तस्याभवत्सख्यं राघवस्य महात्मनः
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्
स राज्यं प्राप्य सुग्रीवस्सीतायाः परिमार्गणे
वानरान्प्रेषयामास शतशोऽथ सहस्रशः
ततो वानरकोटीभिस्सहितोऽहं नरर्षभ
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम्
तत्र प्रवृत्तिस्सीताया गृध्रेणैव महात्मना
सम्पातिना समाख्याता रावणस्य निवेशने
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः
सम्पातिगृध्राधिगतप्रवृत्तिः पाण्डुनन्दन
शतयोजनविस्तारमर्णवं सहसा प्लुतः
अहं स्ववीर्यादुत्तीर्य सागरं वरुणालयम्
सुतां जनकराजस्य सीतां सुररसुतोपमाम्
दृष्टवान्पाण्डवश्रेष्ठ रावणस्य निवेशने
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम्
दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम्
प्रत्यागतः पुनश्चापि नाम तत्र प्रकाश्य वै
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः
अबद्धपूर्वमन्यैस्स बद्ध्वा सेतुं महोदधौ
वृतो वानरकोटीभिस्समुत्तीर्य महार्णवम्
रणे तु राक्षसगणं रावणं लोकरावणम्
निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम्
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम्
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः
प्रत्याहृत्य ततस्सीतां नष्टां वेदश्रुतीमिव
तयैव सहितस्साध्व्या पत्न्या रामो महायशाः
गत्वा ततो वै त्वरितस्स्वां पुरीं रघुनन्दनः
अध्यवात्सीत्ततोऽयोध्यामयोध्यां द्विषतां गणैः
ततः प्रतिष्ठितो राज्ये श्रेष्ठो नृपतिसत्तमः
वरं मया याचितोऽसौ रामो राजीवलोचनः
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन्
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोऽब्रवीत्
सीताप्रसादाच्च सदा मामिहस्थमरिन्दम
उपतिष्ठन्ति दिव्या वै भोगा भीम यथेप्सिताः
दशवर्षसहस्राणि दशवर्षशतानि च
राज्यं कारितवान्रामस्ततस्स त्रिदिवं गतः
तदिहाप्सरसस्तात गन्धर्वाश्च तथाऽनघ
तस्य रामस्य चरितं गायन्त्यो रमयन्ति माम्
अयं च मार्गो मर्त्यानामगम्यः पुरुषर्षभ
ततोऽहं रुद्धवान्मार्गं तवेमं दुर्गमं नरैः
त्वामनेन पथा यान्तं यक्षो वा राक्षसोऽपि वा
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति कौरव
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः
यदर्थमागतश्च त्वमत एव सरश्च तत्