वैशम्पायनः-
तत्र ते पुरुषव्याघ्राः परं शौचं समास्थिताः
षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः
मनोज्ञे काननवरे सर्वभूतमनोरमे
पादपैः पुष्पविकचैः फलभारावनामितैः
शोभितं सर्वतो रम्यं पुंस्कोकिलविराजितम्
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
सरांसि च विचित्राणि प्रसन्नसलिलानि च
कमलैस्सोत्पलैस्तत्र भ्राजमानानि सर्वशः
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः
पुण्यगन्धस्सुखस्पर्शो ववौ तत्र समीरणः
ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान्
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया
सहस्रपत्रमर्काभं दिव्यं गन्धमुपावहत्
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्
अनिलेनाहृतं भूमौ पतितं जलजं शुचि
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्
द्रौपदी-
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम्
इदं च धर्मराजाय प्रदास्यामि परन्तप
गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ
हरेरिदं मे कामाय काम्यकं पुनराश्रमम्
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्
वैशम्पायनः-
एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता
जगाम धर्मराजाय पुष्पमादाय तत्तदा
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
प्रियायाः प्रियकामार्थं भीमो भीमपराक्रमः
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
आजिहीर्षुर्जगामाऽऽशु स पुष्पाण्यपराण्यपि
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्
मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः
व्यपेतभयसम्मोहश्शैलमभ्यपतद्बली
लतागुल्मतृणच्छन्नमिन्द्रनीलशिलातलम्
गिरिं चचारारिहरः किन्नराचरितं शुभम्
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः
सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम्
सर्वर्तुरमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन्
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
आजिघ्रन्स महातेजास्सर्वर्तुकुसुमोद्भवम्
गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः
पितुस्संस्पर्शशीतेन गन्धमादनवायुना
ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
विलोकयामास तदा पुष्पहेतोररिन्दमः
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्
अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम्
दिग्वारणविषाणाग्रघृष्टोपलशिलातलम्
स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिस्सृतैर्जलैः
सशष्पकबलैस्स्वस्थैरदूरपरिवर्तिभिः
श्वापदैश्चापि हरिणैः कौतूहलनिरीक्षितः
चालयन्नूरुवेगेन लताजालान्यनेकशः
आक्रीडमानः कौन्तेयश्श्रीमान्वायुसुतो ययौ
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः
प्रांशुः कनकसाराभस्सिंहसंहननो युवा
मत्तवारणविक्रन्तो मत्तवारणवेगवान्
मत्तवारणताम्राक्षो मत्तवारणवारणः
प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
नवावतारं रूपस्य विक्रीणन्निव पाण्डवः
चचार रमणीयेषु गन्धमादनसानुषु
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
सोऽचिन्तयत्तथा पार्थो मयि त्विह विलम्बति
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः
स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च
नकुलं सहदेवं च न मोक्ष्यति नराधिपः
कथं नु कुसुमावाप्तिस्स्याच्छीघ्रमिति चिन्तयन्
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
कम्पयन्पृथिवीं पद्भ्यां निर्घात इव पर्वसु
त्रासयन्गजयूथानि वातरंहा वृकोदरः
सिंहव्याघ्रवराहांश्च मर्दयानो महाबलः
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः
जलावलम्बोऽतिबलं सविद्युदिव तोयदः
व्यनदत्स महानादं भीमसेनो महाबलः
तेन शब्देन महता भीमस्य प्रतिबोधिताः
गुहां सन्तत्यजुर्व्याघ्रा निलिल्युर्बिलवासिनः
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः
ऋक्षाश्चोत्ससृजुर्वृक्षान्निपेतुर्हरयो गुहाम्
व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः
तेन वित्रासिता नागाः करेणुपरिवारिताः
तद्वनं सम्परित्यज्य जग्मुरन्यन्महावनम्
वराहमृगसिंहाश्च महिषाश्च व्यलोकयन्
तथा गोमायुसङ्घाश्च प्रणेदुः पृषतैस्सह
रथाङ्गनामनत्यूहा हंसाः कारण्डवैस्सह
शुकाः पारावताः कौञ्चा विसञ्ज्ञा भेजिरे दिशः
तथाऽन्ये दर्पिता नागाः महिषाश्च बलाबलाः
सिंहव्याघ्राश्च सङ्क्रुद्धा भीममभ्यद्रवन् द्रुतम्
व्यादितास्या महारौद्रा नदन्तो भैरवान्रवान्
ततो वायुसुतो भीमस्स्वबाहुबलमाश्रितः
गजेनाघ्नन्गजं भीमस्सिंहं सिंहेन मर्दयन्
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः
सर्वे विसुस्रुवुस्तूर्णं भीमसेनभयार्दिताः
शकृन्मूत्राणि मुञ्चन्तो भयविभ्रान्तमानसाः
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतश्श्रीमाञ्शब्देनापूरयन्दिशः
अथापश्यन्महाबाहुर्गन्धमादनसानुषु
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम्
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः
गजो मदोत्कट इव प्रभञ्जन्विविधान्द्रुमान्
उत्पाट्य कदलीषण्डान्बहुतालसमुच्छ्रितान्
चिक्षेप तरसा वीरस्समन्ताल्लीलया बली
महान्तमकरोत्तत्र कुरूणामृषभो बली
विमर्दन्सुमहातेजा नृसिंह इव दर्पितः
ततस्तान्यरुजंस्तत्र बहूनि च बृहन्ति च
रुरुवारणयूथानि महिषांश्च वनाश्रयान्
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतश्श्रीमान्नादेनापूरयन्दिशः
तेन शब्देन चोग्रेण भीमसेनरवेण च
वनान्तरगतास्सर्वे वित्रेसुर्मृगपक्षिणः
तस्मिन्नथ प्रवृत्ते तु सङ्क्षोभे मृगपक्षिणाम्
जलार्द्रपक्षा विहगास्समुत्पेतुस्सहस्रशः
तान्सोदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः
तत्सरोऽथावतीर्यैव प्रभूतकमलोत्पलम्
महागज इवोद्दामश्चिक्रीड बलवद्बली
वितीर्य तस्मिन्रुचिरमुत्ततारामितद्युतिः
क्षोभयन्सलिलं भीमः प्रभिन्न इव वारणः
ततो जगाहे वेगेन तद्वनं बहुपादपम्
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः
तस्य शङ्खस्य शब्देन भीमसेनरवेण च
बाहुशब्देन चोग्रेण नदन्तीव गिरेर्गुहाः
तं वज्रनिष्पेषरवमास्फालितरवं भृशम्
श्रुत्वा शिलागुहासुप्तैस्सिंहैर्मुक्तो महास्वरः
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत
मुक्तो विरावस्सुमहान्पर्वतो येन पूरितः
तं तु नादं ततश्श्रुत्वा सुप्तो वानरपुङ्गवः
व्यजृम्भत महाकायो हनूमान्नाम नामतः
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा
तेन शब्देन महता व्यबुध्यत महाकपिः
जृम्भमाणस्सुविपुलं शक्रध्वजमिवोच्छ्रितम्
आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम्
तस्य लाङ्गूलनिनदं पर्वतस्य गुहामुखैः
निमित्तीकृत्य गौर्नादमुत्ससर्ज समन्ततः
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्
अन्तर्धाय विचित्रेषु ससार गिरिसानुषु
स भीमसेनस्तच्छ्रुत्वा सम्प्रहृष्टतनूरुहः
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्
लाङ्गूलास्फोटशब्दाच्च चलितस्स महागिरिः
विघूर्णमानस्सहसा समन्ताच्च व्यशीर्यत
कदलीवनमध्यस्थमथ पीने शिलातले
स ददर्श महाबाहुर्वानराधिपतिं स्थितम्
विद्युत्सम्पातदुष्प्रेक्षं विद्युत्सम्पातपिङ्गलम्
विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम्
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम्
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्
किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्
रक्तोष्टं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम्
वदनं वृत्तद्रंष्ट्राग्रं रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैश्शुक्लहासैरलङ्कृतम्
केसरोत्करसम्मिश्रमशोकानामिवोत्करम्
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्
दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम्
निरीक्षन्तमिव त्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं धीमानतिकायं महाद्युतिम्
स्थितं पन्थानमावृत्य पादं हैमगिरेरिव
अथोपसृत्य तरसा भीमो भीमपराक्रमः
सिंहनादं समकरोद्बाधयिष्यन् महागिरिम्
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने
अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः
ततः पवनजश्श्रीमानन्तिकस्थं महौजसम्
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत्
हनूमान्-
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः
ननु नाम त्वया कार्या दया भूतेषु जानता
वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः
मानुषा बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
न धर्मं त्वं तु जानीषे वृद्धा नोपासितास्त्वया
अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान्
ब्रूहि कस्त्वं किमर्थं त्वं वनमेतदुपागतः
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि
क्व च त्वयाऽद्य गन्तव्यं ब्रवीषि पुरुषर्षभ
अतः परमगम्योऽयं पर्वतस्सुदुरारुहः
विना सिद्धगतिं वीर गतिरत्र न विद्यते
कारुण्यात्सौहृदाच्चापि वारये त्वां महाबल
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ
इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम