युधिष्ठिरः-
धर्मज्ञो बलवाञ्शूरस्सौम्यो राक्षसपुङ्गवः
भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम्
तव भीम सुतेनाहं नीतो भीमपराक्रमः
अक्षतस्सह पाञ्चाल्या गच्छेयं गन्धमादनम्
वैशम्पायनः-
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्
चिन्तयामास बलवान्महाबलपराक्रमम्
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा
कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान्
उवाच भीमसेनं स पितरं सत्यविक्रमः
घटोत्कचः-
आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम्
वैशम्पायनः-
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे
चिन्तया समनुप्राप्तमित्युवाच वृकोदरः
भीमसेनः-
हैडिम्बेय परिश्रान्ता तव माताऽपराजिता
त्वं च कामगमस्तात बलवान्वह तां खग
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः
घटोत्कचः-
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्
मन्दम्मन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम्
वैशम्पायनः-
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे
लोमशस्सिद्धमार्गेण जगामानुपमद्युतिः
स्वेनैवाऽऽत्मप्रभावेण द्वितीय इव भास्करः
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः
एवं सुरमणीयानि वनान्युपवनानि च
आलोकयन्तस्ते जग्मुर्विशालां बदरीमनु
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः
उह्यमाना ययुश्शीघ्रं महदध्वानमल्पवत्
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान्
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्
आसेवितान्किम्पुरुषैर्गन्धर्वैश्च समन्ततः
विद्याधरैराचरितानृक्षवानरकिन्नरैः
भ्रमरैश्चापि हरिणैश्चमरै रुरुभिस्तथा
वराहैस्सृमरैश्चापि पृषितैश्च समाचितान्
नानाविधैर्मृगैश्चापि उपेतान्सौम्यदर्शनैः
नदीशतसमाकीर्णांश्चारणैश्च निषेवितान्
सदामदैश्च विहगैः पादपैरावृतांस्तथा
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम्
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्
उपेतं पादपैर्दिव्यैस्सदा पुष्पफलोपगैः
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्
रम्यां स्निग्धदलच्छायां श्रिया परमया युताम्
पत्रैस्स्निग्धैरविरलैरुपेतां बहुभिश्शुभैः
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्
मधुस्स्रवैस्सदा दिव्यैर्महर्षिगणसेविताम्
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्
अदंशमशके देशे बहुमूलफलोदके
नलशाद्वलसञ्छन्ने देवगन्धर्वसेविते
सुभूमिभागविशदे स्वभावविहिते शुभे
जातां मृदुशुभस्पर्शे देशेऽपहतकण्टके
तामुपेत्य महात्मानस्सह तैर्ब्राह्मणर्षिभिः
अवतेरुस्ततस्सर्वे रक्षस्स्कन्धगताश्शनैः
ततस्तमाश्रमं पुण्यं नरनारायणार्चितम्
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः
तमसा रहितं पुण्यं नापि स्पृष्टं रवेः करैः
क्षुत्तृट्शीतोष्णशोकैश्च वर्जितं शोकनाशनम्
महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समावृतम्
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः
बलिहोमार्चितं दिव्यं सुसम्मृष्टानुलेपनम्
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्
विमलैश्चाग्निशरणैस्स्रुग्भाण्डैराचितं शुभैः
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्
शरण्यं सर्वभूतानां ब्रह्मघोषविनादितम्
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्
श्रिया युक्तमनिर्देश्यं देववर्योपसेवितम्
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः
सूर्यवैश्वानरनिभैस्तपसा भावितात्मभिः
ब्रह्मर्षिभिस्तपस्सिद्धैर्यतिभिर्नियतेन्द्रियैः
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतश्शुचिः
भ्रातृभिस्सहितो धीमान्धर्मपुत्रो युधिष्ठिरः
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्
अन्वगच्छन्त सुप्रीता दिव्या देवमहर्षयः
आशीर्वादान्प्रयुञ्जन्तस्स्वाध्यायनियता भृशम् |
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः
उपजह्रुस्सुसलिलं पुष्पमूलफलं शुचि
स तैः प्रीत्याऽथ सत्कारमुपनीतं महात्मभिः
प्रयतः प्रतिजग्राह धर्मराजो युधिष्ठिरः
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोहरम्
प्रीतस्स्वर्गोपमं पुण्यं पाण्डवस्सह कृष्णया
विवेश शोभया युक्तं भ्रातृभिश्च महात्मभिः
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सदाऽर्चितः
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम्
नरनारायणस्थानं भागीरथ्योपशोभितम्
तस्मिन्मधुस्रवफलां ब्रह्मर्षिगणभाविताम्
बदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिस्सह
मुदा युक्ता महात्मानो रेमिरे तत्रतत्र ते
आलोकयन्तो मैनाकं नानाद्विजगणायुतम्
हिरण्यशिखरं चैव मध्ये बिन्दुसरश्शिवम्
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम्
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम्
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः
तस्मिन्देवर्षिचरिते देशे परमदुर्गमे
भागीरथीजले पुण्ये तर्पयाञ्चक्रिरे पितॄन्
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः
ब्राह्मणैस्सहिता प्रीत्या न्यवसन्पाण्डुनन्दनाः
कृष्णया तत्र पश्यन्तः क्रीडितान्यमरप्रभाः
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः