वैशम्पायनः-
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
श्रान्ता दुःखपरीता च वातवर्षेण तेन च
सौकुमार्याच्च पाञ्चाली सम्मुमोह यशस्विनी
सा मुह्यमाना मोहेन बाहुभ्यामसितेक्षणा
वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत
सा लम्बमाना सहितावूरू करिकरोपमौ
पपात सहसा भूमौ वेपन्ती कदली यथा
तां पतन्तीं वरारोहां भज्यमानां लतामिव
नकुलस्समभिद्रुत्य परिजग्राह वीर्यवान्
नकुलः-
राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी
आश्वासय महाराज तामिमां श्रमकर्शिताम्
वैशम्पायनः-
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः
भीमश्च सहदेवश्च सहसा समुपाद्रवन्
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम्
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः
युधिष्ठिरः-
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता
शेते निपतिता भूमौ सुखार्हा वरवर्णिनी
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्
मत्कृतेऽद्य वरार्हायाश्श्यामतां समुपागतम्
किमिदं द्यूतकामेन मया अकृतबुद्धिना
आदाय कृष्णां चरता वने मृगगणाकुले
सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन्
इति द्रुपदराजेन पित्रा दत्ताऽयतेक्षणा
तत्सर्वं समवाप्यैवं श्रमशोकविकर्शिता
शेते निपतिता भूमौ मम पापस्य कर्मणा
वैशम्पायनः-
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे
धौम्यप्रभृतयस्सर्वे तत्राऽऽजग्मुर्द्विजोत्तमाः
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्
रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ताः क्रियाः
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः
स्पृश्यमाना करैश्शीतैः पाण्डवैश्च मुहुर्मुहुः
सेव्यमाना च शीतेन जलमिश्रेण वायुना
पाञ्चाली सुखमासाद्य लेभे चेतश्शनैश्शनैः
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे
तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम्
तस्या यमौ रक्ततलौ पादौ परपुरञ्जयौ
कराभ्यां किणयुक्ताभ्यां शनकैस्संववाहतुः
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः
युधिष्ठिरः-
बहवः पर्वता भीम विषमा हि सुदुर्गमाः
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति
भीमः-
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ
स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः
अथवा यो मया जातो विहगो मद्बलोपमः
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः