वैशम्पायनः-
ते वीरास्सज्जधन्वानस्तूणीवन्तस्समार्गणाः
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः
परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठास्सर्वधनुष्मताम्
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्
सरांसि सरितश्चैव पर्वतांश्च वनानि च
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि
नित्यपुष्पफलान्रम्यान्देवर्षिगणसेवितान्
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः
चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान्
पश्यन्तो मृगजातानि बहूनि विविधानि च
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्
विविशुस्ते महात्मानः किन्नराचरितं गिरिम्
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते
ततो रेणुस्समुद्भूतस्सर्वत्र चलितो महान्
पृथिवीं चान्तरिक्षं च द्यां चैव तमसाऽवृणोत्
न च प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम्
न चान्व्योन्यमपश्यन्त तमसाऽऽहतचक्षुषः
आकृष्यमाणा वातेन साश्मचूर्णेन भारत
द्रुमाणां वातरुग्णानां पततां भूतले भृशम्
अन्येषां च महीजानां शब्दस्समभवन्महान्
द्यौस्स्वित्पतति किं भूमिर्दीर्यते पर्वतो नु किम्
इति ते मेनिरे सर्वे पवनेन विमोहिताः
ते यथाऽनन्तरान्वृक्षान्वल्मीकान्विषमानपि
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे
ततः कार्मुकमुद्यम्य भीमसेनो महाबलः
कृष्णामादाय सङ्गत्या तस्थावास्थाय पादपम्
धर्मराजश्च धौम्यश्च निलिल्याते महावने
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः
वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे
मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति
महद्भिः पृषतैः पूर्णं वर्षमभ्याजगाम ह
ततोऽश्मसहिता धारास्संवृण्वन्त्यस्समन्ततः
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः
तत्र सागरगा आपः कीर्यमाणास्समन्ततः
प्रादुरासन्सकलुषाः फेनवत्यो विशां पते
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुताः
परिसमस्रुर्महानद्यः प्रकर्षन्त्यो महाद्रुमान्
तस्मिन्नुपरते शब्देबाते च समतां गते
व्यपयाते च पानीये प्रादुर्भूते दिवाकरे
सम्प्रहृष्टाश्च ते सर्वे समाजग्मुश्च भारत
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम्