लोमशः-
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत
समतीतोऽसि कौन्तेय कालशैलं च पर्वतम्
एषा गङ्गा सप्तविधा राजसे भरतर्षभ
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमच्युत
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट्
अष्टाशीतिसहस्राणि गन्धर्वाः स्त्रीविहारिणः
तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते
यक्षेन्द्रा मनुजश्रेष्ठ माणिभद्रमुपासते
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्॥
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः
तैस्समेष्याम कौन्तेय यत्तो विक्रमणे भव
कैलासः पर्वतो राजन्षड्योजनशतोच्छ्रितः
यत्र देवास्समायान्ति विशाला यत्र भारत
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः
नागास्सुपर्णा गन्धर्वाः कुबेरसदनं प्रति
तान्विगाहस्व पार्थाद्य तपसा नियमेन च
रक्ष्यमाणो महाराज भीमसेनबलेन च
स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते
इन्द्रस्य जाम्बूनदपर्वताद्वै शृणोमि घोषं तव देवि गङ्गे
गोपाययैनं सुभगे रिपुभ्यस्सर्वाजमीढापचितं नरेन्द्रम्
व्रज स्वधर्मं प्रविविक्षतोऽस्य शैलानिमाञ्छैलसुते नृपस्य
शिवप्रदा सर्वसरित्प्रधाने सभ्रातृकस्येह युधिष्ठिरस्य
युधिष्ठिरः-
अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां च सर्वे रक्षत मा प्रमादः
देशो ह्ययं दुर्गतमो मतो मे तस्मात्परं शौचमिहाचरध्वम्
वैशम्पायनः-
ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन
शून्येऽर्जुनेऽसन्निहिते च तात त्वमेव कृष्णां भजसेऽसुखेषु
ततो महात्मा यमजौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे
उवाच तौ बाष्पकलं स राजा मा भैष्ट चागच्छत चाप्रमत्ताः