लोमशः-
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः
सत्रमास्ते महाभौमो रैभ्ययाज्यः प्रतापवान्
तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू
वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः
अथावलोककोऽगच्छद्गृहानेकः परावसुः
कृष्णाजिनेन संवीतं ददर्श पितरं वने
जघन्यरात्रे निद्रान्धस्सावशेषे तमस्यपि
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्
मृगं तु मन्यमानेन पिता चैतेन हिंसितः
अकामयानेन तदा शरीरत्राणमिच्छता
स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः
परावसुः-
इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन
मया विहिंसितस्तातो मन्यमानेन वै मृगम्
सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्मघातिनाम्
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने
अर्वावसुः-
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः
लोमशः-
स तस्य ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्
बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम्
परावसुः-
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः
लोमशः-
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत
नैव स्म प्रतिजानामि ब्रह्महत्यां स्वयं कृताम्
मम भ्रात्रा कृतमिदं मया तु परिरक्षितम्
स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः
उग्रं तपस्समास्थाय दिवाकरमथाश्रितः
रहस्यमेव कृतवान्सूर्यस्य द्विजसत्तमः
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः
प्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप
तं ते प्रवरयामासुर्निरस्तश्च परावसुः
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः
स चापि वरयामास पितुरुत्थानमात्मनः
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः
यवक्रीतः-
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्
समधीतं मया ब्रह्म व्रतानि चरितानि च
कथं नु रैभ्यश्शक्तो मामधीयानं तपस्विनम्
तथा युक्तेन विधिना निहन्तुममरोत्तमाः
देवाः-
मैवं कृथा यवक्रीत यथा वदसि वै मुने
विना गुरुमधीता हि सुखाद्वेदास्त्वया मुने
अनेन तु गुरून्दुःखात्तोषयित्वा सुकर्मणा
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्
लोमशः-
यवक्रीतमथोक्त्वैवं देवास्साग्निपुरोगमाः
सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्
ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर
आश्रमस्तस्य पुण्योऽयं सदा पुष्पफलद्रुमः
SV-03-05-113-028c