लोमशः-
भरद्वाजः-
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्
समित्कलापमादाय प्रविवेश स्वमाश्रमम्
तं स्म सर्वे पुरा दृष्ट्वा प्रत्युत्तिष्ठिन्ति पावकाः
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्
किं नु मे नाग्नयश्शूद्र प्रतिनन्दन्ति दर्शनम्
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाऽऽश्रमे
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः
शूद्रः-
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः
तथा हि निहतश्शेते राक्षसेन बलीयसा
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा
अग्न्यगारं प्रति द्वारि मया दोर्भ्यां निवारितः
ततस्स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम्
सन्ताडितो हि तूर्णं शूलहस्तेन रक्षसा
लोमशः-
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं महत्
गतासुं पुत्रमादाय विललाप सुदुःखितः
भरद्वाजः-
ब्राह्मणानां हितार्थाय ननु त्वं तप्तवांस्तपः
द्विजानामनधीता वै वेदास्सम्प्रतिभान्त्विति
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु
अनागास्सर्वभूतेषु कर्कशत्वमुपेयिवान्
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्
गतवानेव तं क्षुद्रं कालान्तकयमोपमम्
यस्स जानन्महातेजा वृद्धस्यैकं ममाऽऽत्मजम्
गतवानेव कोपस्य वशं परमदुर्मतिः
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा
त्यक्ष्यामि त्वां यथा पुत्र प्राणानिष्टतमान्भुवि
यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी
तथा ज्येष्ठस्सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम्
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः
परासुश्च सुतो दृष्टश्शप्तश्चेष्टस्सखा मया
ईदृशीमापदं कोऽत्र द्वितीयोऽसहिष्यति
लोमशः-
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम्