लोमशः-
चङ्क्रम्यमाणस्स तदा यवक्रीरकुतोभयः
जगाम माधवे मासि रैभ्याश्रमपदं प्रति
स ददर्शाऽऽश्रमे पुण्ये पुष्पितद्रुमभूषिते
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत
यवक्रीस्तामुवाचेदमुपतिष्ठस्व भामिनि
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम ह
तत एकान्तमानीय लज्जयामास भारत
आजगाम तदा रैभ्यस्स्वमाश्रममरिन्दम
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर
सा तस्मै सर्वमाचष्ट यवक्रीतस्य भाषितम्
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदाऽऽत्मना
तच्छ्रुत्वा तस्य रैभ्यस्य यवक्रीतस्य चेष्टितम्
दहन्निव तदा चेतः क्रोधस्समभवन्महान्
स तदा मन्युनाऽऽविष्टस्तपस्वी भृशकोपनः
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते
ततस्समभवन्नारी तस्या रूपेण सम्मिता
अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः
ततस्समभवद्रक्षो दीप्तास्यं घोरदर्शनम्
अब्रूतां तु तदा रैभ्यं किं कार्यं करवामहे
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया
ततस्सा समुपास्थाय कृत्या सृष्टा महात्मना
कमण्डलुं जहारास्य मोहयित्वा च भारत
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्
तत उद्यतशूलोऽसौ राक्षसस्समुपाद्रवत्
तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया
यवक्रीस्सहसोत्थाय प्राद्रवद्यत्र वै सरः
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितं पुनः
जगाम सरितस्सर्वास्ताश्चाप्यासन्विशोषिताः
स काल्यमानो घोरेण शूलहस्तेन रक्षसा
अग्निहोत्रे पितुर्भीतस्सहसा समुपाद्रवत्
स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा
निगृहीतो बलाद्द्वारि सोऽतिष्ठत्तत्र पार्थिव
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः
ताडयामास शूलेन स भिन्नहृदयोऽपतत्
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्
अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत्