लोमशः-
एषा मधुबिला नाम सा गङ्गैषा प्रकाशते
एतत्कर्मबलिं नाम भरतस्याभिषेचनम्
अलक्ष्म्या किल संवृत्तो वृत्रहन्ता शचीपतिः
आप्लुतस्सर्वपापेभ्यस्स गङ्गायां प्रमुच्यते
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा
एनं पर्वतराजेन्द्रमारुह्य पुरुषर्षभ
अयशस्यामसह्यां च अलक्ष्मीमपनेष्यसि
एते कनखला राजन्नृषीणां दयिता नगाः
एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा
आजमीढावगाह्यैनां सर्वपापैः प्रमुच्यसे
अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम्
तूष्णीं गङ्गां च कौन्तेय सानुजस्समुपस्पृश
आश्रमस्स्थूलशिरसो रमणीयः प्रकाशते
अत्र मानं च कौन्तेय क्रोधं चैव विसर्जय
एष रैभ्याश्रमश्श्रीमान्पाण्डवेय प्रकाशते
भारद्वाजः कविर्यत्र यवक्रीतो व्यनश्यत
युधिष्ठिरः-
कथं युक्तोऽभवदृषिर्भारद्वाजः प्रतापवान्
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे
लोमशः-
भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरम्
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत
रैभ्यो विद्वान्सहापत्यस्तपस्यविरतोऽभवत्
तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रौ च भारत
पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्
जनयामास सन्तापमिन्द्रस्य सुमहातपाः
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्
यवक्रीतः-
द्विजानामनधीता वै वेदास्सुरगणार्चित
प्रतिभान्त्विति तस्याहमिदं परमकं तपः
स्वाध्यायार्थं समारम्भो ममायं पाकशासन
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक
कालेन महता वेदाश्शक्या गुरुमुखाद्विभो
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः
इन्द्रः-
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्
लोमशः-
एवमुक्त्वा गतश्शक्रो यवक्रीरपि भारत
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः
घोरेण तपसा राजंस्तप्यमानो महातपाः
सन्तापयामास भृशं देवराजमिति श्रुतिः
तं तथा तप्यमानं तु तपस्तीव्रं महाद्युतिः
उपेत्य बलभिद्देवो वारयामास वै प्रभुः
इन्द्रः-
अशक्योऽर्थस्समारब्धो नैतद्बुद्धिकृतं तव
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते
यवक्रीतः-
न चैतदेवं क्रियते देवराज समीप्सितम्
महता नियमेनाहं तप्स्ये घोरतरं तपः
समिद्धेऽग्नावुपकृत्य चाङ्गं होष्यामि घोरं मघवंस्तन्निबोध
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्
लोमशः-
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः
प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान्
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य महात्मनः
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि
भागीरथ्यां तत्र सेतुं वालुकाभिस्सुरेश्वरः
यदाऽस्य वदतो वाक्यं नैव चक्रे द्विजोत्तमः
वालुकाभिस्ततश्शक्रो गङ्गां समभिपूरयन्
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्
स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत्
तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः
यवक्रीतः-
किमिदं वर्तते ब्रह्मन्किञ्च ते ह चिकीर्षितम्
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः
इन्द्रः-
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति
क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः
यवक्रीतः-
नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन
अशक्येऽभिनिवर्तस्व शक्यमर्थं समाचर
इन्द्रः-
यथैव भवता चेदं तपो वेदार्थमुद्यतम्
अशक्यं तद्वदस्माभिरयं भारस्समुद्यतः
यवक्रीतः-
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर
तथा यदि ममापीदं मन्यसे पाकशासन
क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर
वरांश्च मे प्रयच्छान्यान्यैर्विद्वान्भवितास्म्यहम्
लोमशः-
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः
प्रतिभास्यन्तु ते वेदाः पित्रा सह यथेप्सितम्
यच्चान्यन्मन्यसे कामं यवक्रीर्गम्यतामिति
स लब्धकाम पितरं समेत्येदं वचोऽब्रवीत्
यवक्रीतः-
प्रतिभासन्तु ते वेदास्तव जातस्य चोभयोः
अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया
भरद्वाजः-
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
ऋषिरासीत्पुरा विप्रो बालधिर्नाम विश्रुतः
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम्
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः
तस्य प्रसादो देवैश्च कृतो न त्वमरैस्समः
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति
बालधिः-
यथेमे पर्वताश्शश्वत्तिष्ठन्ति सुरसत्तमाः
तावज्जीवेन्मम सुतो निर्वाणमुत मे मतः
भारद्वाजः-
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा
स तु लब्धवरो दर्पादृषींश्चैवावमन्यत
विकुर्वाणो मुनीनां च चरमाणो महीमिमाम्
आससाद महावीर्यं धनुषाक्षं मनीषिणम्
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्
भव भस्मेति चोक्तस्स न भस्म समपद्यत
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्
निमित्तमस्य महिषैर्भेदयामास पर्वतान्
स निमित्ते विनष्टे तु ममार सहसा शिशुः
तं मृतं पुत्रमादाय विललाप ततः पिता
लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत्
ऊचुर्वेदोक्तया पूर्वं गाथां यां तां निबोध मे
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन
महिषैर्भेदयामास महर्षिस्स महीधरान्
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ
तान्यथा पुत्र नाभ्यैषीस्तथा कुर्यास्त्वतन्द्रितः
स हि क्रुद्धस्समर्थस्त्वां पुत्र पीडयितुं रुषा
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः
यवक्रीतः-
एवं करिष्ये मा तापं तात कार्षीः कथञ्चन
यथा हि मे भवान्मान्यस्तथा रैभ्यो पिता मम
लोमशः-
उक्त्वा च पितरं श्लक्ष्णं यवक्रीरकुतोभयः
विप्रकुर्वन्नृषीनन्यानतुष्यत वधान्मुदा