अष्टावक्रः-
अनेनैव ब्राह्मणाश्शुश्रुवांसो वादे जित्वा सलिले मज्जिताः किल
तानेव धर्मानयमद्य वन्दी प्राप्नोतु गृह्याऽऽशु निमज्जयैनम्
वन्दी-
अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः
ते तु सर्वे वरुणस्योत राज्ञो द्रष्टुं गता यज्ञमायान्ति भूयः
अष्टावक्रं पूजयेः पूजनीयं यस्य हेतोर्जनितारं समेष्ये
अष्टावक्रः-
विप्रास्समुद्राम्भसि मज्जिता ये वाचा जिता मेधया संविदानाः
तां मेधया वाचमसौ जहार यथा वाचमवचिन्वन्ति सन्तः
अग्निर्दहञ्जातवेदा गृहान्वै विसर्जयँस्तेजसा नाप्यधाक्षीत्
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्त्यसन्तः
श्लेष्मातकी क्षीणवर्चाश्शृणोषि उताहो त्वां स्तुतयो मोहयन्ति
हस्तीव त्वं जनक विनुद्यमानो न मामिकां वाचमिमां शृणोषि
जनकः-
शृणोमि वाचं तव सत्यरूपाममानुषीं दिव्यरूपोऽसि साक्षात्
अजैषीर्यद्वन्द्विनं त्वं विवादे निसृष्ट एष क्षतकामोऽस्तु वन्दी
अष्टावक्रः-
नानेन जीवता कश्चिदर्थो मे वन्दिना नृप
पिता यद्यस्य वरुणो मज्जयैनं जलाशये
वन्दी-
अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य
इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोळम्
लोमशः-
ततस्ते पूजिता विप्रा वरुणेन महात्मना
उदतिष्ठंस्ततस्सर्वे जनकस्य समीपतः
कहोलः-
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा
यदहं नाशकं कर्तुं तत्पुत्रः कृतवानिति
उताबलस्य बलवानुत बालस्य पण्डितः
उत वाऽविदुषो विद्वान्पुत्रो जनक जायते
वन्दी-
शितेन ते परशुना स्वयमेवान्तको नृप
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते
महदुक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे
शुचीन्भागान्प्रतिजगृहुश्च हृष्टास्साक्षाद्देवा जनकस्येव यज्ञे
लोमशः-
समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु
अनुज्ञातो जनकेनेह राज्ञा विवेश तोयं सागरस्यैव वन्दी
अष्टावक्रः पितरं पूजयित्वा सम्पूजितो ब्राह्मणैस्तैर्यथावत्
प्रत्याजगामाऽऽश्रममेव हृष्टो जित्वा वन्दिं सहितो मातुलेन
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितस्सह विप्रैः प्रतीतः
पुण्यान्यन्यानि शुचिकर्मैकबुद्धिर्मया सार्धं चरितास्याजमीढ