लोमशः-
यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिश्श्वेतकेतुः पृथिव्याम्
तस्याऽऽश्रमं पश्यत पाण्डवेयास्सदाफलैरुपपन्नं महीजैः
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम्
वेत्स्यामि वाणीमिति सम्प्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे
यस्मिन्काले ब्रह्मविदां वरिष्ठावास्तां तदा मातुलभागिनेयौ
अष्टावक्रश्चैव कहोलसूनुरौद्दालकिश्श्वेतकेतुश्च राजन्
विदेहराजस्य समीपतस्तौ धीरावुभौ मातुलभागिनेयौ
प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ
युधिष्ठिरः-
कथम्प्रभावस्स बभूव विप्रस्तथाविधं यो निजग्राह वन्दिम्
किञ्चाधिकृत्याथ तयोर्विवादो विदेहराजस्य समीप आसीत्
अष्टावक्रः केन चासौ बभूव तत्सर्वं नो लोमशाऽऽचक्ष्व ब्रह्मन्
लोमशः-
उद्दालकस्य नियतश्शिष्य एको नाम्ना कहोळेति बभूव राजन्
शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं ह्यध्ययनं चकार
तं वै विप्राः पर्यभवंस्तु शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुस्सः
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम्
तस्यां गर्भस्समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच
सर्वा रात्रीरध्ययनं करोषि नेदं पित्रस्सम्यगतीव वर्तते
उपालब्धश्शिष्यमध्ये महर्षिस्स तं कोपादुदरस्थं शशाप
यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टधा त्वम्
स वै तथा वक्र एवोपजातस्त्वष्टावक्रः प्रथितो मानवेषु
तस्याऽऽसीद्वै मातुलश्श्वेतकेतुस्स तेन तुल्यो वयसा बभूव
सम्पीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ
उवाच भर्तारमिदं रहोवचः प्रसाद्य हीना वसुना धनार्थिनी
सुजाता-
कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे
न चास्ति मे वसु किञ्चित्प्रदाता येनाहमेतामापदं निस्तरेयम्
लोमशः-
उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यधावत्
स वै तदा वेदविदा निगृह्य निमज्जितो वन्दिना ह्यप्सु विप्रः
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु ततो निमज्जितः
उवाच तां तत्र ततस्सुजातामष्टावक्रं ग्राहितव्योऽयमर्थः
ररक्ष माताऽप्यनिशं स्म मन्त्रं जातोऽप्येवं न स शुश्राव विप्रः
उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम्
ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम्
अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च
तत्तेनोक्तं रुदितस्सोऽभिवीक्ष्य हृदि स्थितं शल्यमिवातिदुःखात्
गत्वा गृहं रोदमानो जनित्रीं पप्रच्छैनां क्व नु तातो ममेति
ततस्सुजाता परमार्तरूपा शापाद्भीता तत्त्वमस्याऽऽचचक्षे
तद्वै तत्त्वं सर्वमाज्ञाय रात्रावित्यब्रवीच्छ्वेतकेतुं स विप्रः
विप्रः-
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यश्श्रूयते यस्य यज्ञे
श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्र भोक्ष्यावहे च
लोमशः-
विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जमकस्य राज्ञः
अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद