श्येनः-
धर्मात्मानं त्वाहुरेकं राजन् सर्वे महीक्षितः
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा
मा हिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशीः
राजा-
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः
एवमस्यागतस्येह कपोतस्याभयार्थिनः
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि
प्रस्पन्दमानस्सम्भ्रान्तः कपोतश्श्येन लक्ष्यते
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः
श्येनः-
आहारात्सर्वभूतानि सम्भवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः
शक्यते पुष्कलस्यार्थे चिररात्राय जीवितुम्
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते
विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम्
प्रभृते मयि सर्वं मे पुत्रदारं मरिष्यति
रक्षन्कपोतं राजंस्त्वं बहून्प्राणान् हनिष्यसि
बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत्
अविरोधी तु यो धर्मः स धर्मस्सत्यविक्रम
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत्
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये
यतो भूयस्ततो राजन्कुरु धर्मविनिश्चयम्
राजा-
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम
सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे
तथा हि धर्मसंयुक्तं बहुचित्रं प्रभाषसे
न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यहम्
शरणैषिपरित्यागं कथं साध्विति मन्यसे
आहारार्थं समारम्भस्तव चायं विहङ्गम
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसे
श्येनः-
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा
भक्षयामि महाराज किं ममान्येन केनचित्
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव
तमुत्सृज महीपाल कपोतमिममेव मे
श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी
मा राजन्मार्गमज्ञाय कदलीस्तम्भमारुह
राजा-
राष्ट्रं शिबीनामृद्धं वै शाधि पक्षिभिरर्चितः
कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम
यद् वा कामयसे किञ्चिच् श्येन सर्वं ददानि ते
विनेमं पक्षिणं श्येन शरणार्थिनमागतम्
येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्
श्येनः-
उशीनर कपोते ते यदि स्नेहो नराधिप
आत्मानं सुसमुत्कृत्य कपोततुलया धृतम्
यदा समं कपोतेन तव मांसं नराधिप
त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति
राजा-
अनुग्रहमिमं मन्ये यन्मां श्येनाभिभाषसे
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्
लोमशः-
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्
तुलयामास कौन्तेय कपोतेन समं विभो
ध्रियमाणस्तु तुलया कपोतोऽत्यतिरिच्यते
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः
न विद्यते यदा मांसं कपोतेन समं धृतम्
ततः प्रक्षीणमांसोऽसावारुरोह तुलां स्वयम्
श्येनः-
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्
जिज्ञासमानौ धर्म स्वमिमं यज्ञमुपागतौ
यत्ते मांसानि गात्रेभ्यस्समुत्कृत्तानि पार्थिव
एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव सर्वदा
तत्पाण्डवेय यजनं राज्ञस्तस्य महात्मनः
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रणाशनम्
अत्रैव सततं देवा मुनयश्च तपोधनाः
दृश्यन्ते ब्राह्मणा राजन्पुण्यवद्भिर्महात्मभिः