लोमशः-
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत
मर्तुकामा नरा राजन्निहाऽऽयान्ति सहस्रशः
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः
एषा सरस्वती पुण्या दिव्या चौघवती नदी
एतद्विनशनं नाम सरस्वत्या विशां पते
द्वारं निषादराज्यस्य येषां दोषात्सरस्वती
प्रविष्टा पृथिवीं वीर मा निषादास्स्म मां विदुः
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती
यत्रैनामन्ववर्तन्त दिव्याः पुण्यास्समुद्रगाः
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिन्दम
लोपामुद्रा समागम्य भर्तारमवृणीत वै
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते
इन्द्रस्य दयितं नित्यं पवित्रं पापनाशनम्
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्
एषा रम्या विपाशा च नदी परमपावनी
अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः
बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिन्दम
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिस्सह
यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च
अग्नेश्चासीद्धि संवादः काश्यपस्य च भारत
एतद्द्वारं महाराज मानसस्य प्रकाशते
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्
एष वातिमृकण्डोर्वै प्रख्यातस्सत्यविक्रमः
नात्यवर्तत यद्द्वारं विदेहानुत्तराञ्जयम्
एष उज्जानको नाम पावकिर्यत्र शान्तवान्
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया
तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम्
जलां चोर्ध्वजलां चैव यमुनामभितो नदीम्
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत
तां देवसमितिं तस्य वासवश्च विशां पते
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत
जिज्ञासमानौ वरदौ महात्मानमुशीनरम्
इन्द्रश्श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः
उरुं राज्ञस्समासाद्य कपोतश्श्येनजाद्भयात्
शरणार्थी तदा राजन्निलिल्ये भयपीडितः