लोमशः-
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः
देशो नाहुषयज्ञस्यायं पुण्यतमो नृप
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽतिसृष्टवान्
सार्वभौमस्य कौन्तेय ययातेरमितौजसः
स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्
मज्जन्तीमिव चाक्रान्तां ययातेर्नृप कर्मभिः
एषा शम्येकपात्रा सा शकटं चैतदुत्तमम्
पश्य नागह्रदानेतान्पश्य नारायणाश्रमान्
एतदार्चीकपुत्रस्य योगैर्विचरतो महीम्
उपसर्पणमुर्वीश व्याख्यातममितौजसः
अत्रानुवंशं पठतश्शृणु मे कुरुनन्दन
उलूखलैराभरणैः पिशाची यदभाषत
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमिच्छसि
एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि
एतद्वै ते दिवानृत्तं रात्रौ नृत्तमतोऽन्यथा
अद्य चाभिनयस्याहः क्षपां भरतसत्तम
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्
ययातिर्बहुरत्नाढ्यो र्यत्रेष्ट्वा मुदमाप्तवान्
एतत्प्लक्षवटं नाम यमुनातीर्थमुच्यते
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः
अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः
यूपोलूखलिनस्तत्र गच्छन्त्यवभृथप्लवम्
अत्र वै भरतो राजा राजन्क्रतुभिरिष्टवान्
असकृत्कृष्णसारङ्गं धर्मेणाऽऽप्य च मेदिनीम्
अत्रैव पुरुषव्याघ्र मरुत्तस्सत्रमुत्तमम्
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति
पूयते दुष्कृताच्चैव समुपस्पृश्य भारत
वैशम्पायनः-
तत्र सभ्रातृकस्स्नात्वा स्तूयमानो महर्षिभिः
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्
युधिष्ठिरः-
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्
लोमशः-
एवमेतन्महाबाहो पश्यन्ति परमर्षयः
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान्
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्
अत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि
इह सारस्वतैर्यज्ञैरिष्टवन्तस्सुरर्षयः
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च
वेदिः प्रजापतेरेषा समन्तात्पञ्चयोजना
कुरोश्च यज्ञशीलस्य क्षेत्रमेतन्महात्मनः