युधिष्ठिरः-
कथंवीर्यस्स राजाऽभूत्सोमको ददतां वरः
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः
लोमशः-
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा
स वै यत्नेन महता तासु पुत्रं महीपतिः
कञ्चिन्नासादयामास कालेन महताऽपि च
कदाचित्तस्य वृद्धस्य यतमानस्य धीमतः
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत
तं जातं मातरस्सर्वाः परिवार्य समासते
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः
ततस्ता मातरस्सर्वाः प्राक्रोशन्भृशदुःखिताः
परिवार्य जन्तुं सहितास्स शब्दस्तुमुलोऽभवत्
तमार्तनादं सहसा शुश्राव स महीपतिः
अमात्यपरिषन्मध्ये उपविष्टस्सह द्विजैः
ततः प्रस्थापयामास किमेतदिति पार्थिवः
तस्मै क्षत्ता समाचष्ट यथावृत्तं सुतं प्रति
त्वरमाणस्स चोत्थाय सोमकस्सह मन्त्रिभिः
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिन्दमः
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरात्ततः
ऋत्विजा सहितो राजन्सहामात्य उपाविशत्
सोमकः-
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्
अनित्यत्वात्तु भूतानां शोक एवैकपुत्रता
इदं भार्याशतं ब्रह्मन्परीक्ष्याप्युचितं प्रभो
पुत्रार्थिना मया चोढं न तासां विद्यते प्रजा
एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम
यतमानासु सर्वासु किं नु दुःखमतः परम्
वयश्च समतीतं मे सभार्यस्य द्विजोत्तम
आसां प्राणास्समायत्ता ममास्मिन्नेकपुत्रके
स्यात्तु कर्म तथायुक्तं येन पुत्रशतं भवेत्
महता लघुना वाऽपि कर्मणा दुष्करेण वा
ऋत्विक्-
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक
सोमकः-
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत्
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीमि ते
ऋत्विक्-
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ
ततः पुत्रशतं श्रीमदुत्तिष्ठेदचिरेण ते
वपायां हूयमानायां धूममाघ्राय मातरः
ततस्तास्सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः
लक्षणं चास्य सौवर्णं वामपार्श्वे भविष्यति
सोमकः-
ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कार्यं तथातथा
पुत्रकामतया सर्वं करिष्यामि वचस्तव
लोमशः-
ततस्स याजयामास सोमकं तेन जन्तुना
मातरस्तु बलात्पुत्रमपाकार्षुः कृपान्विताः
हा हतास्स्मेति वाशन्त्यस्तीव्रशोकसमाहताः
तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति
कुररीणामिवार्तानामपाकृष्य तु तं सुतम्
विशस्य चैनं विधिवद्वपामस्य जुहाव सः
जन्तोर्वपायां हूयन्त्यां गन्धमाघ्राय मातरः
आर्ता निपेतुस्सहसा पृथिव्यां कुरुनन्दन
सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः
ततो दशसु मासेषु सोमकस्य विशां पते
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत
जन्तुर्ज्येष्ठस्समभवज्जनित्र्यामेव पूर्ववत्
स तासामिष्ट एवासीन्न तथाऽन्ये निजास्सुताः
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे
तस्मिन्पुत्रशते चाग्र्यस्स बभूव गुणैर्युतः
ततस्स लोकमगमत्सोमकस्य गुरुर्नृप
अन्वक्षमेव पश्चात्तु सोमकोऽप्यगमत्परम्
नरके पच्यम़ानं तु ददर्श स तु सोमकः
तमपृच्छत्कथं नु त्वं नरके पच्यसे द्विज
तमब्रवीद्गुरुस्सोऽथ पच्यमानोऽग्निना भृशम्
गुरुः-
लोमशः-
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्
एतच्छ्रुत्वा तु राजर्षिर्धर्मराजमथाब्रवीत्
सोमकः-
अहं तत्र प्रवेक्ष्यामि मुच्यतां मम याजकः
मत्कृते हि महाभागः पच्यते नरकाग्निना
सोऽहमात्मानमाधास्ये नरकान्मुच्यतां गुरुः
धर्मः-
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन
इमानि तव दृश्यन्ते फलानि वदतां वर
सोमकः-
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्
इच्छाम्यहमनेनैव सह वस्तुं सुरालये
नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम्
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्
धर्मः-
लोमशः-
यद्येवमीप्सितो राजन्भुङ्क्ष्वाद्य सहितः फलम्
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम्
स चकार तथा सर्वं राजा राजीवलोचनः
पुनश्च लेभे लोकान् स्वान्कर्मणा तेन निर्जितान्
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः
एष तस्याश्रमः पुण्यो य एषोऽत्र प्रकाशते
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः
एतस्मिन्नेव राजेन्द्र वत्स्यामो विगतज्वराः
षड्रात्रं नियतात्मानस्स़ज्जीभव कुरूद्वह