लोमशः-
ततश्श्रुत्वा तु शय्यातिर्वयस्स्थं च्यवनं कृतम्
प्रहृष्टस्सेनया सार्धमुपायाद्भार्गवाश्रमम्
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव
रेमे महीपश्शय्यातिः कृत्स्नां प्राप्य महीमिव
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः
उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्
याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय
ततः परमसंहृष्टश्शय्यातिः पृथिवीपतिः
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्
प्रशस्तेऽहनि याज्ञीये सर्वकामसमृद्धिमत्
कारयामास शय्यातिर्यज्ञायतनमुत्तमम्
तत्रैनं च्यवनो राजन्याजयामास भार्गवः
अद्भुतानि च तत्रासन्यानि तानि निबोध मे
अगृह्णाच्च्यवनस्सोममश्विनोर्देवयोस्तदा
तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम्
इन्द्रः-
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः
भिषजौ देवपुत्राणां पातुं सोमं नचार्हतः
च्यवनः-
मा वमंस्था महात्मानौ रूपद्रविणवत्तमौ
यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम्
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतस्स्वयम्
अश्विनावपि देवेन्द्र देवौ विद्धि पुरन्दर
इन्द्रः-
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः
लोमशः-
एतदेव तदा वाक्यमाम्रेडयति वासवे
अनादृत्य ततश्शक्रं भागं जग्राह भार्गवः
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
इन्द्रः-
आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम्
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्
लोमशः-
एवमुक्तस्स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः
तस्य प्रहरतो बाहू स्तम्भयामास भार्गवः
तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः
ततः कृत्या समभवदृषेस्तस्य तपोबलात्
मदो नाम महावीर्यो बृहत्कायो महासुरः
शरीरं यस्य निर्देष्टुमशक्यं हि सुरासुरैः
तस्याऽऽस्यमभवद्घोरं तीक्ष्णाग्रदशनं महत्
हनुरेका स्थिता त्वस्य भूमावेका दिवं गता
चतस्र आयता दंष्ट्रा योजनानां शतंशतम्
इतरे तस्य दशना बभूवुर्दशयोजनाः
प्राकारसदृशाकाराश्शूलाग्रसमदर्शनाः
बाहू परिघसङ्काशावायतावयुतं शतम्
नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसन्निभम्
लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्
स भक्षयिष्यन्सङ्क्रुद्धश्शतक्रतुमुपाद्रवत्
महता घोररूपेण लोकाञ्शब्देन पूरयन्
तं दृष्ट्वा घोरवदनं मदं देवश्शतक्रतुः
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्
भयात्संस्तम्भितभुजस्सृक्किणी लेलिहन्मुहुः
ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः
इन्द्रः-
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव
भविष्यतस्सत्यमेतद्वचो ब्रह्मन् ब्रवीमि ते
न ते मिथ्या समारम्भो भवत्वेष परो विधिः
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि
सोमपावश्विनावेतौ यथा वाद्यकृतौ त्वया
तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव
सुकन्यायाः पितुश्चास्य कीर्तिर्लोके प्रथेदिति
अतो मयैतत्प्रहितं तव वीर्यप्रकाशनम्
तस्मात्प्रसादं कुरु मे भवत्वेतद् यदिच्छसि
लोमशः-
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः
स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरन्दरम्
मदं च व्यभजद्राजन्मद्ये स्त्रीषु च वीर्यवान्
अक्षेषु मृगयायां च पूर्वसृष्टं पुनःपुनः
तदा मदं विनिक्षिप्य शक्रं सन्तर्प्य चेन्दुना
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम्
विख्याप्य वीर्यं लोकेषु सर्वेषु वदतां वरः
सुकन्यया महारण्ये विजहारानुकूलया
तस्यैतद्द्विजसङ्घुष्टं सरो दिव्यं प्रकाशते
अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय
एतद्दृष्ट्वा महीपाल वल्मीकाग्रं च भारत
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्
पुष्करेषु महाराज सर्वेषु च जलं स्पृश
आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम्
सदाफलं सदास्रोतो मरुतां स्थानमुत्तमम्
चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर
एतच्चन्द्रसरो नित्यमर्चयन्नृषयस्सदा
वैखानसाः पुराणाश्च वालखिल्यास्तथैव च
शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रस्रवणानि च
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश
शन्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः
नरनारायणौ चोभौ स्थानं प्राप्तास्सनातनम्
इह नित्याश्रया देवाः पितरश्च महर्षिभिः
आर्चीकपर्वते ये तु तान्यजस्व युधिष्ठिर
इह ते वै चरून्प्राश्नंस्त्रिदशाश्च विशां पते
यमुना चाक्षयस्रोताः कृष्णश्चैव तपोधनः
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप
अत्र धाता विधाता च वरुणश्चोर्ध्वमागताः
अत्र ते न्यवसन्राजन् काङ्क्षन्तस्सहधर्मिणः
मैत्राणामृजुबुद्धीनामयं गिरिवरश्शिवः
एषा सा यमुना राजन्महर्षिगणसेविता
नानायज्ञचिता पुण्या सर्वपापभयापहा
अत्र राजा महेष्वासो मान्धाताऽयजत स्वयम्
सहदेवश्च कौन्तेय सोमको ददतां वरः