लोमशः-
कस्य चित्त्वथ कालस्य सुराणामश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव
ऊचतुस्समभिद्रुत्य नासत्यावश्विनाविदम्
अश्विनौ-
कस्य त्वमसि वामोरु किं वने वै करोषि च
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने
लोमशः-
सुकन्या-
ततस्सुकन्या संवीता तावुवाच सुरोत्तमौ
शय्यातितनयां वित्तं भार्यां मां च्यवनस्य माम्
लोमशः-
नाम्ना चाहं सुकन्याऽस्मि नृलोकेऽस्मिन्प्रतिष्ठिता
साऽहं सर्वात्मना नित्यं पतिं प्रति सुनिष्ठिता
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु
अश्विनौ-
कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने
भ्राजसे वनमध्ये त्वं विद्युत्सौदामनी यथा
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि
अनाभरणसम्पन्ना परमाम्बरवर्जिता
शोभसेऽप्यधिकं भद्रे वनमप्यनलङ्कृता
सर्वाभरणसम्पन्ना परमाम्बरधारिणी
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी
कस्मादेवंविधा भूत्वा जरया जर्झरं पतिम्
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्
असमर्थं परित्राणे पोषणे च शुचिस्मिते
साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
लोमशः-
सुकन्या-
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्
रताऽहं च्यवने पत्यौ मैवं मां परिशङ्कतम्
लोमशः-
तावब्रूतां पुनश्चैनामावां देवभिषग्वरौ
युवानं रूपसम्पन्नं करिष्यावः पतिं तव
ततस्तस्यावयोश्चैव पतिमेकतरं वृणु
एतेन समयेनैनमामन्त्रय वराङ्गने
सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम्
उवाच ताभ्यां यद्वाक्यमुक्तं भृगुसुतं प्रति
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति
सा भर्त्रा समनुज्ञाता क्रियतामिति चाब्रवीत्
श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
ततोऽम्भश्च्यवनश्शीघ्रं रूपार्थी प्रविवेश ह
अश्विनावपि तद्राजन्सरः प्रविशतां विभो
ततो मुहूर्तादुत्तीर्णास्सर्वे ते सरसस्त्रयः
दिव्यरूपधरास्सर्वे युवानो मृष्टकुण्डलाः
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः
तेऽब्रुवन्सहितास्सर्वे वृणीष्वान्यतमं शुभे
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि
त्वमश्विनोरन्यतमं च्यवनं वा यशस्विनि
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व शुभानने
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्
निश्चित्य मनसा बुद्ध्या ततो वव्रे स्वकं पतिम्
लब्ध्वा तु च्यवनो भार्यां वयो रूपं च वाञ्छितम्
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः
च्यवनः-
यथाऽहं रूपसम्पन्नो वयसा च समन्वितः
कृतो भवद्भ्यां वृद्धस्सन्भार्यां च प्राप्तवानिमाम्
तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्
लोमशः-
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः
च्यवनश्च सुकन्या च सुराविव विजह्रतुः