लोमशः-
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः
समीपे सरसस्सोऽस्य तपस्तेपे महाद्युतिः
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव
अतिष्ठत् स बहून् कालानेकदेशे विशां पते
स वल्मीकोऽभवदृषिर्लताभिश्च सुसंवृतः
कालेन महता राजन्समाकीर्णः पिपीलिकैः
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः
तप्यते स्म तपो राजन् वल्मीकेन समावृतः
अथ दीर्घस्य कालस्य शय्यातिर्नाम पार्थिवः
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः
एकैव च सुता शुभ्रा सुकन्या नाम भारत
सा सखीभिः परिवृता सर्वाभरणभूषिता
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत्
सा वै वसुमतीं तत्र पश्यमाना मनोरमाम्
वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता
रूपेण वयसा चैव मदनेन मदेन च
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः
तां सखीरहितामेकामेकवस्त्रामलङ्कृताम्
ददर्श भार्गवो धीमान् स्फुरन्तीमिव विद्युतम्
तां पश्यमानो विजने स रेमे परमद्युतिः
कामोत्कण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः
तामाबभाषे कल्याणीं सा चास्य न शृणोति वै
ततस्सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
अक्रुद्ध्यत्सहसा विद्धो नेत्रे परममन्युमान्
ततश्शय्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्
ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम्
तथागतमभिप्रेक्ष्य पर्यतप्यत पार्थिवः
शय्यातिः-
तपोनित्यस्य वृद्धस्य सरोषस्य विशेषतः
केनापकृतमद्यैव भार्गवस्य महात्मनः
ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम्
लोमशः-
तमूचुस्सैनिकास्सर्वे न विद्मोऽपकृतं वयम्
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु
ततस्स पृथिवीपालस्साम्ना चोग्रेण च स्वयम्
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते
सा तदार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्
पितरं दुःखितं चापि सुकन्येदमथाब्रवीत्
सुकन्या-
मयाऽटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्
लोमशः-
एतच्छ्रुत्वा तु शय्यातिर्वल्मीकं तूर्णमभ्यगात्
तत्रापश्यत्तपोवृद्धं चन्द्रादित्यसमप्रभम्
ज्ञानवृद्धं वयो वृद्धं योगवृद्धं च भार्गवम्
अयाचताथ सैन्यस्य प्राञ्जलिः पृथिवीपतिः
शय्यातिः-
लोमशः-
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा
च्यवनः-
रूपौदार्यगुणैर्युक्तां लोभमोहबलात्कृताम्
तामेव प्रतिगृह्याहं राजन्दुहितरं तव
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते
लोमशः-
ऋषेर्वचनमाज्ञाय शय्यातिरविचारयन्
ददौ दुहितरं तस्मै च्यवनाय महात्मने
प्रतिगृह्य तु तां कन्यां च्यवनः प्रससाद ह
प्राप्तप्रसादो राजर्षिस्ससैन्यः पुरमाव्रजत्
सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका
समाराधयत क्षिप्रं च्यवनं सा शुचिस्मिता