लोमशः-
गयेन यजमानेन सोमेनेह पुरन्दरः
तर्पितश्श्रूयते राजन्स तृप्तो मुदमभ्यगात्
इह देवैस्सहेन्द्रैस्तु प्रजापतिभिरेव च
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः
आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः
तर्पयामास सोमेन हयमेधेषु सप्तसु
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः
सप्तैकैकस्य यज्ञस्य चषालाश्च प्रतिष्ठिताः
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्
स्वयमुत्थापयामासुर्देवास्सेन्द्रा युधिष्ठिर
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः
अमाद्यदिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः
सिकता वा यथा लोके यथा वा दिवि तारकाः
यथा वा वर्षतो धारा असङ्ख्येयास्स्म केनचित्
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु
भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम्
न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः
हिरण्मयीभिर्गोभिश्च स यज्ञेषु विशां पते
ब्राह्मणांस्तर्पयामास नानादिग्भ्यस्समागतान्
अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता
गयस्य यजमानस्य तत्रतत्र विशां पते
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिस्सहितोऽच्युत
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि
वैशम्पायनः-
स पयोष्ण्यां नरश्रेष्ठस्स्नात्वा वै भ्रातृभिस्सह
वैडूर्यपर्वतं चैव नर्मदां च महानदीम्
उद्दिश्य पाण्डवश्रेष्ठस्स प्रतस्थे महीपतिः
समानवेषैस्तेजस्वी भ्रातृभिस्सहितोऽनघः
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः
तीर्थानि रमणीयानि तत्रतत्र विशाम्पते
यथायोगं यथाप्रीति प्रययौ भ्रातृभिस्सह
लोमशः-
सन्ददानोऽसकृद्वित्तं ब्राह्मणेभ्यस्सहस्रशः
देवानामेति कौन्तेय तथा राज्ञां सलोकताम्
वेडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते
एष शय्यातियज्ञस्य देशस्तात प्रकाशते
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः
चुकोप भार्गवश्चापि महेन्द्राय महातपाः
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्
नासत्यौ च महाभाग कृतवान्सोमपीथिनौ
युधिष्ठिरः-
कथं विष्टम्भितस्तेन भगवान्पाकशासनः
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम