सात्यकिः-
न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किञ्चित्
ये नाथवन्तोऽद्य भवन्ति लोके ते नाऽऽत्मना कर्म समारभन्ते
तेषां तु कार्येषु भवन्ति नाथाश्शैब्यादयो राम यथा ययातेः
तेषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति
कस्मादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ
वसन्त्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानभिगम्य नाथान्
निर्यातु सा त्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा
यमक्षयं गच्छतु धार्तराष्ट्रस्सबान्धवो वृष्णिबलाभिभूतः
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्नरेन्द्र
भ्राता च मे यस्स सखा गुरुश्च जनार्दनस्याऽऽत्मसमश्च पार्थः
तदर्थमेको हि य उद्यमन्वै करोति कर्णोऽस्त्रमवारणीयम्
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय
कायाच्छिरस्सर्पविषाग्निकल्पैश्शरोत्तमैरुन्मथिताऽस्मि राम
खड्गेन चाहं निशितेन सङ्ख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य
ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरुंश्च सर्वान्
आत्तायुधं मा युधि रौहिणेय पश्यन्तु शूरा युधि जातहर्षाः
निघ्नन्तमेकं कुरुयोधमुख्यानग्निं महाकक्षमिवानलेन
प्रद्युम्नमुक्तान्निशितान्न शक्तास्सोढुं कृपद्रोणविकर्णकर्णाः
जानासि वीर्यं च तवाऽऽत्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः
साम्बस्ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य
न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्
हतस्स पापो युधि ते बलेन युद्धेऽद्वितीयो हरितुल्यवीर्यः
वृत्तोरुरत्यायतपीनबाहुरेतेन सङ्ख्ये निहतोऽश्वचक्रः
को नाम साम्बस्य रणे मनुष्यो गत्वाऽऽभिमुख्यं सहसा प्रमुच्येत्
यथैव यत्तस्य पुरन्दरस्य हरिध्वजं स्यन्दनमास्थितस्य
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विक्रमेत
तथा प्रविश्यान्तरमस्य सङ्ख्ये को नाम जीवन्पुनराव्रजेत
द्रोणं च भीष्मं च महारथौ तौ द्रौणिं च सोमं सह सोमदत्तम्
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः
किं नाम लोकेष्वविषह्यमस्ति कृष्णस्य सर्वेषु च दैवतेषु
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे
ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु
गदोल्मुकाशावहभानुशीथाः शूरश्च सङ्ख्ये निशठः कुमारः
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु लोके
सवृष्णिभोजान्धकयोधमुख्या समागता क्षत्रियशूरसेना
हत्वा रणे तान्धृतराष्ट्रपुत्रान्लोके यशः स्फीतमिवाऽऽतनोतु
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः
युधिष्ठिरः पालयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन
अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम्
श्रीभगवान्-
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व
द्वाभ्यां भुजाभ्यामजितां तु भूमिं नैच्छत्कुरूणामृषभः कथञ्चित्
न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम्
भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम्
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनञ्जयश्च
कस्मान्न कृत्स्नां पृथिवीं प्रशास्ति माद्रीसुताभ्यां च पुरस्कृतोऽसौ
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च
योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम्
युधिष्ठिरः-
न तच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम्
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च
प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोऽस्मि नाथैर्नरदेवताद्यैः
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयस्सुखिनस्समेतान्
वैशम्पायनः-
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान्
यदुप्रवीरास्स्वगृहाणि जग्मू राजाऽपि तीर्थान्यनुसञ्चचार
विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम्
जगाम पुण्यां सरितं पयोष्णीं सभ्रातृबन्धुस्सह लोमशेन
सुतेन सोमेन विमिश्रतोदां पयः पयोष्णीं प्रति सोऽध्युवास
द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानस्स्तुतिभिः पुष्कलाभिः