वैशम्पायनः-
गच्छन्स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा
सर्वाणि विप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरस्य
स वृत्तवांस्तेषु कृताभिषेकस्सहानुजः पार्थिवपुत्रपौत्रः
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः
तत्रापि चाप्लुत्य महानुभावस्सन्तर्पयामास सुरान्पितॄंश्च
द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत्
ततो विपाप्मा द्रविडेषु राजा समुद्रमासाद्य च लोकपुण्यम्
अगस्त्यतीर्थं च पवित्रमाहुर्नारीतीर्थान्यत्र चैवावगच्छत्
तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरसह्यम्
सम्पूज्यमानः परमर्षिसङ्घैः परां मुदं तत्र ततोपलेभे
स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायस्सहितोऽनुजैश्च
सम्पूजयन्विक्रममर्जुनस्य रेमे महीपालपतिः पृथिव्याम्
ततस्सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य
हृष्टस्सह भ्रातृभिरर्जुनस्य सङ्कीर्तयामास गवां प्रदानम्
स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन्
क्रमेण गच्छन्परिपूर्णकामश्शूर्पाकरं पुण्यतमं ददर्श
तत्रोदधेः कञ्चिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद
तप्तं सुरैर्यत्र तपः पुरस्तात्पुण्योपेतं पुण्यतमैर्नरेन्द्रैः
स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः
आर्चीकपुत्रस्य तपस्विसङ्घैस्समावृतां पुण्यकृदर्चनीयाम्
ततो वसूनां वसुधाधिपस्स मरुद्गणानां च तथाऽश्विनोश्च
वैवस्वतादित्यधनेश्वराणामिन्द्रस्य विष्णोस्सवितुर्विभोश्च
भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चापि
सरस्वत्यास्सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि
तेषूपवासान्विबुधानुपोष्य दत्त्वा च रत्नानि महानुभावः
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनस्स शूर्पारकमाजगाम
स तेन तीरेण च सागरस्य पुनः प्रयातस्सह सोदरीयैः
द्विजैः पृथिव्यां कथितं महद्भिस्तीर्थं प्रभासं समुपाजगाम
तत्राभिषिक्तः पृथुलोहिताक्षस्सहानुजैर्देवगणान्पितॄंश्च
सन्तर्पयामास तथैव कृष्णा ते चापि विप्रास्सह लोमशेन
स द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहस्सु तदाऽभिषेकम्
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतां वरिष्ठः
समागतं तत्र तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम्
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान्
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान्
ततस्स रामं च जनार्दनं च कार्ष्णिं च साम्बं च शिनेश्च पौत्रम्
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः
ते चापि सर्वान्प्रतिपूज्य पार्थांस्तैस्सत्कृताः पाण्डुसुतैस्तथैव
युधिष्ठिरं सम्परिवार्य राजन्नुपाविशन्देवगणा यथेन्द्रम्
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः
अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम्
श्रुत्वा तु ते तस्य वचः प्रतीतास्तांश्चापि दृष्ट्वा सुकृशानतीव
नेत्रोद्भवं सम्मुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः