परशुरामः-
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युरेवंविधो युक्तस्सर्वभूतेष्वनागसः
किन्नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः
अयुध्यमानो वृद्धस्सन्हतश्शरशतैश्शितैः
किन्नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः
अकृतव्रणः-
लालप्यैवं सकरुणं बहु नानाविधं नृप
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः
ददाह पितरं चाग्नौ रामः परपुरञ्जयः
प्रतिजज्ञे वधं तेषां सर्वक्षत्रस्य भारत
सङ्क्रुद्धोऽतिबलश्शूरश्शस्त्रमादाय वीर्यवान्
जघ्निवान्कार्तवीर्यस्य सुतानेको महाबलः
तेषां ये चानुगाः केचित् क्षत्रियाः क्षत्रियर्षभ
तांश्च सर्वानवामृद्नाद्रामश्शस्त्रभृतां वरः
त्रिस्सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत्
ततो यज्ञेन महता जामदग्न्यः प्रतापवान्
तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ
वेदिं च प्रददौ तस्मै काश्यपाय महात्मने
दशव्यामायतां कृत्वा नवोत्सेधां विशाम्पते
तां काश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा
व्यभजंस्ते न ते राजन्प्रख्याताः खाण्डवाहनाः
स प्रदाय महीं तस्मै काश्यपाय महातपाः
तपस्सु मन आस्थाय महाबलपराक्रमः
अस्मिन्वसति शैलेन्द्रे महेन्द्रेऽमितविक्रमः
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा
वैशम्पायनः-
ततश्चतुर्दशीं रामस्समयेन महामनाः
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम्
स तमानर्च राजेन्द्र भ्रातृभिस्सहितः प्रभुः
स तस्मै परमां पूजां चक्रे नृपतिसत्तमः
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः