अकृतव्रणः-
स वेदाध्ययने युक्तो जमदग्निर्महातपाः
तपस्तेपे ततो देवान्नियमाद्वशमानयत्
स प्रसेनजितं राजन्नधिगम्य नराधिपम्
रेणुकां वरयामास स च तस्मै ददौ नृपः
रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता
सा तु चित्ररथं नाम मार्तिकावतकं नृपम्
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका
व्यभिचारात्तु तस्मात्सा क्लिन्नाम्भसि विचेतना
अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे
उत्तीर्य चापि सा यत्नाज्जगाम भरतर्षभ
प्रविवेशाथ सन्त्रस्ता तां वै भर्तान्वबुध्यत
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्
धिक्शब्देन महातेजा गर्हयामास वीर्यवान्
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्
न च ते जातसम्मोहाः किञ्चिदूचुर्विचेतसः
ततश्शशाप तान्क्रोधात्ते शप्ताश्चेतनां जहुः
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः
जमदग्निः-
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा
तमुवाच महामन्युर्जमदग्निर्महातपाः
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः
अकृतव्रणः-
तत आदाय परशुं रामो मातुश्शिरोऽहरत्
ततस्तस्य महाराज जमदग्नेर्महात्मनः
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम्
जमदग्निः-
ममेदं वचनात्तात कृतं ते कर्म दुष्करम्
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा
अकृतव्रणः-
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः
कदाचित्तु तथैवास्य विनिष्क्रामन्सुताः प्रभो
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत
तमाश्रममनुप्राप्तमृषेर्भार्या समार्चयत्
स युद्धमदसम्मत्तो नाभ्यनन्दन्नथाऽर्चनम्
प्रमथ्य चाश्रमात्तस्माद्धोमधेनुं तथा बलात्
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान्
आगताय च रामाय पिताऽऽचष्ट तदा स्वयम्
गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्
तस्याथ युधि विक्रम्य भार्गवः परवीरहा
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसन्निभान्
सहस्रसम्मितान्राजन्प्रगृह्य रुचिरं धनुः
अर्जुनस्याथ दायादा रामेण कृतमन्यवः
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन्
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्
असकृद्रामरामेति विक्रोशन्तमनाथवत्
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर
घातयित्वा शरैर्जग्मुर्यथागतमरिन्दमाः
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम्
अनर्हं तं तथाभूतं विललाप सुदुःखितः