वैशम्पायनः-
उषित्वा रजनीमेकां तत्र तां पृथिवीपतिः
तापसानां परं चक्रे सत्कारं भ्रातृभिस्सह
लोमशश्चात्र तान्सर्वानाचख्यौ तत्र तापसान्
भृगूनङ्गिरसश्चैव वासिष्ठान्काश्यपांस्तथा
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः
रामस्यानुचरं वीरमपृच्छदकृतव्रणम्
युधिष्ठिरः-
कदा नु रामो भगवांस्तापसो दर्शयिष्यति
तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम्
अकृतव्रणः-
आयानेवासि विदितो रामस्य विदितात्मनः
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी
युधिष्ठिरः-
भवाननुगतो रामं जामदग्न्यं महाबलम्
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः
स भवान्कथयत्वद्य यथा रामेण निर्जिताः
आहवे क्षत्रियास्सर्वे कथं केन च हेतुना
अकृतव्रणः-
कन्याकुब्जे महानासीत्पार्थिवस्सुमहाबलः
गाधीति विश्रुतो लोके वनवासं जगाम सः
वने तु तस्य वसतः कन्या जज्ञेऽप्सरोपमा
ऋचीको भार्गवस्तां वै वरयामास भारत
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम्
गाधिः-
उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्परिवर्तनम्
एकतश्श्यामकर्णानां पाण्डुराणां तरस्विनाम्
सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम
मम चापि भवान्वाच्यो दीयतामिति भार्गव
देया मे दुहिता चैव त्वद्विधाय महात्मने
ऋचीकः-
अकृतव्रणः-
एकतश्श्यामकर्णानां पाण्डुराणां तरस्विनाम्
दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्
ऋचीकः-
एकतश्श्यामकर्णानां पाण्डुराणां तरस्विनाम्
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम्
अकृतव्रणः-
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा
ततो गाधिस्सुतां तस्मै कन्यां चाप्सरोपमाम्
लब्धं हयसहस्रं तत्तां च दृष्ट्वा दिवौकसः
विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन्
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः
यथाकामं यथाजोषं तया रेमे सुमध्यया
तं विवाहे कृते राजन्सभार्यमवलोकितुम्
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च
भार्यापती समासीनं भृगुं सुरगणार्चितम्
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा
भृगुः-
ततस्स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्
अकृतवर्णः-
सा वै प्रसादयाभास तं गुरुं पुत्रकारणात्
आत्मनश्चैव मातुश्च प्रसादं च चकार सः
भृगुः-
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै
आलिङ्गेतां पृथग्वृक्षौ साऽश्वत्थं त्वमुदुम्बरम्
अकृतवर्णः-
आलिङ्गने तु राजन् वै चक्रतुस्ते विपर्ययम्
कदाचिद्भृगुरागच्छत्तत्र वेद विपर्ययम्
भृगुः-
अथोवाच महातेजा भृगुस्सत्यवतीं स्नुषाम्
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्
भविष्यति महावीर्यस्साधूनां मार्गमास्थितः
अकृतवर्णः-
प्रसादयामास च तं श्वशुरं सा पुनः पुनः
न मे पुत्रो भवेदेवं कामं पौत्रो भवेदिति
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता
कालं प्रतीक्षती गर्भं धारयामास यत्नतः
जमदग्निं ततः पुत्रं जज्ञे वै काल आगते
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्