वैशम्पायनः-
ततः प्रयातः कौशिक्यां पाण्डवो जनमेजय
आनुपूर्व्येण सर्वाणि जगामाऽऽयतनान्युत
स सागरं समासाद्य गङ्गायास्सङ्गमे नृप
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्
ततस्समुद्रतीरेण जगाम वसुधाधिपः
भ्रातृभिस्सहितो वीरः कलिङ्गान्प्रति भारत
लोमशः-
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी
यत्रायजत धर्मो वै देवाञ्शरणमेत्य वै
तत्रर्षिभिस्समायुक्तं यज्ञियं गिरिशोभितम्
उत्तरं तीरमेतद्धि सततं द्विजसेवितम्
समेन देवयानेन पथा स्वर्गमुपेयुषः
अत्र चैवर्षयो नित्यं पुरा क्रतुभिरीजिरे
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे
रौद्रं पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत्
देवाः-
हृते पशौ ततो देवास्तमूचुर्भरतर्षभ
मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः
लोमशः-
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्
इष्ट्या चैनं तर्पयित्वा मानयाञ्चक्रिरे तदा
ततः पशुं समुत्सृज्य देवयानेन जग्मिवान्
अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्
देवास्सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्
इमां गाथामत्र गायन्नपः स्पृशति यो नरः
देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते
वैशम्पायनः-
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तदा
अवतीर्य महाभागास्तर्पयाञ्चक्रिरे पितॄन्
युधिष्ठिरः-
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन
मानुषादस्मि विषयादपेतः पश्य लोमश
सर्वाल्ँलोकान्प्रपश्यामि प्रसादात्तव सुव्रत
वैखानसानां जपतामेष शब्दो महात्मनाम्
लोमशः-
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते
एतत्स्वयम्भुवो राजन्वनं दिव्यं प्रकाशते
यत्रायजत धर्मात्मा विश्वकर्मा प्रतापवान्
यस्मिन्यज्ञे हि भूर्दत्ता काश्यपाय महात्मने
सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा
उवाच चापि कुपिता लोकेश्वरमिमं प्रभुम्
मही-
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्
लोमशः-
विषीदन्तीं तु तां दृष्ट्वा काश्यपो भगवानृषिः
प्रसादयाम्बभूवाथ ततो भूमिं विशां पते
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव
पुनरुत्सृष्टसलिला वेदिर्भूत्वा स्थिता बभौ
सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा
आरोहात्र महाराज वीर्यवांस्त्वं भविष्यसि
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोक्ष्यसेऽद्य
स्पृष्टा हि मर्त्येन ततस्समुद्रमेषा वेदिः प्रविशत्याजमीढ
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतश्चास्य भूमिश्च नाभिः
एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाऽधिरोह
वैशम्पायनः-
ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरस्सागरगामगच्छत्
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास