ऋष्यशृङ्गः-
इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी
सुवर्णवर्णः कमलायताक्षस्सुतस्सुराणामिव शोभमानः
समृद्धरूपस्सवितेव दीप्तस्सुश्लक्ष्णवाक्कृष्णतारश्चकोरम्
नीलाः प्रसन्नाश्च जटास्सुगन्धा हिरण्यरज्जुग्रथितास्सुदीर्घाः
आश्चर्यभूतः पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे
द्वौ चास्य पिण्डावधरेण कण्ठमजातरोमौ सुमनोहरौ मे
विलग्नमध्यश्च सुनाभिदेशः कटी च तस्यातिकृतप्रमाणा
तथाऽस्य चीरान्तरिता प्रभाति हिरण्मयी मेखला मे यथेयम्
अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोस्सम्प्रभाति
पाण्योश्च तद्वद्बहुभिर्निबद्धौ कलापकावक्षमाला यथेयम्
निवेष्टमानानि च तानि तस्य कूजन्ति हंसास्सरसीव मत्ताः
चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति
वक्त्रं च तस्याद्भुतदर्शनीयं सुव्याहृतं ह्लादयतीव चेतः
पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा
यथा वनं माधवमासि मध्ये समीरितं श्वसनेनेव भाति
तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात
सुसंयताचापि जटा विभक्ता द्वैधीकृता भाति ललाटदेशे
कर्णौ च चित्रैरिव चक्रवाकैस्समावृतौ तस्य सुरूपवद्भिः
तथा फलं वृत्तमथो विचित्रं समाहतं पाणिना दक्षिणेन
तद्भूमिमासाद्य पुनःपुनश्च समुत्पतत्यद्भुतरूपमुच्चैः
तच्चाभिहत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णः
सम्प्रेक्ष्य मे पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता
स मे समाश्लिष्य पुनश्शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम्
वक्त्रेण वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम्
न चापि पाद्यं बहुमन्यतेऽसौ फलानि चेमानि मया हृतानि
एवंव्रतोऽस्मीति च मामवोचत्फलानि चान्यानि नवान्यदान्मे
मयोपयुक्तानि फलानि तानि नेमानि तुल्यानि रसेन तेषाम्
न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम्
तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः
पीत्वैव यान्यभ्यधिकं प्रहर्षो ममाभवद्भूश्चलितेव चासीत्
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः
यानि प्रकीर्येह गतस्स्वमेव स आश्रमं तपसा द्योतमानः
गतेन तेनास्मि कृतो विचेता गात्रं च मे सम्परितप्यते च
इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम्
गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्य
इच्छाम्यहं चरितुं तेन सार्धं यथा तपस्स चरत्युग्रकर्मा
विभण्डकः-
रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन
अतुल्यवीर्याण्यतिघोरवन्ति विघ्नं सदा तपसश्चिन्तयन्ति
सुरूपरूपाणि च तानि भूत्वा विलोभ्य भूयो विविधैरुपायैः
सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन्वनेषु
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथञ्चित्
कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तपसः पातयन्ति
असज्जनेनाचरितानि पुत्र पानान्यपेयानि मधूनि तानि
माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति
लोमशः-
रक्षांसि तानीति निवार्य पुत्रं विभण्डकस्तं मृगयाम्बभूव
नासादयामास यदा त्र्यहेण तदा स पर्याववृते श्रमाय
यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिनाश्रमे सः
तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृश्यशृङ्गम्
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टस्सम्भ्रान्तरूपो ह्यभ्यवत्तदानीम्
प्रोवाच चैनां भवदाश्रमाय गच्छाव यावन्न पिता ममेति
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य वेगेन विमुच्य नावम्
प्रलोभयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेस्समीपम्
संस्थाप्य तामाश्रमदर्शने स सन्तारितां नावमतीव शुभ्राम्
तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम्
अन्तःपुरे तं तु निवेश्य राजा विभण्डकस्याऽऽत्मजमेकपुत्रम्
ददर्श मेघैस्सहसा प्रवृष्टमापूर्यणाणं च जगज्जलेन
स रोमपादः परिपूर्णकामस्सुतां ददावृश्यशृङ्गाय शान्ताम्
क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च
विभण्डकस्याव्रजतस्स राजा पशून्प्रभूतान्पशुपांश्च वीरान्
समादिशत्पुत्रगृध्नुर्महर्षिर्विभण्डकः पर्यपृच्छद्यदा वः
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्यैते बहवः कर्षणाश्च
किं ते प्रियं क्रियतां किं महर्षे दासाश्च सर्वे तव दास्यबद्धाः
अथोपायात्स मुनिश्चण्डकोपस्स्वमाश्रमं फलमूलं प्रगृह्य
अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध भृशं ततस्सः
ततस्स कोपेन विदीर्यमाणः करिष्यमाणो नृपतेर्विधानम्
जगाम चम्पां प्रतिधक्ष्यमाणस्तमङ्गराजं विषयं च तस्य
स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान्
गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र
सम्प्राप्य सत्कारमतीव हृष्टः प्रोवाच कस्य प्रथितास्स्थ सौम्याः
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य
एवं स देशेष्वतिपूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान्
प्रशान्तभूयिष्ठरजाः प्रहृष्टस्समाससादाङ्गपतिं पुरस्थम्
स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि त्रिदिवे यथेन्द्रम्
शान्तां स्नुषां तां च ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा शान्तां च शान्तः परमोऽस्य कोपः
चकार तस्मै च परं प्रसादं विभण्डको भूपतये नरेन्द्र
विभण्डकः-
स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावः
जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा
लोमशः-
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव
शान्ता चैनं पर्यचरद्यथावत् खे रोहिणी सोममिवानुरक्ता
अरुन्धती चापि यथा वसिष्ठं लोपामुद्रा चापि यथा ह्यगस्त्यम्
नलस्य वा दमयन्ती यथाऽभूद्यथा शची वज्रधरस्य चैव
नालायनी चेन्द्रसेना बभूव वश्या नित्यं मुद्गलस्याजमीढ
यथा सीता दाशरथेर्महात्मनो यथा तव द्रौपदी पाण्डुपुत्र
तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र
तस्याऽऽश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन्पुण्यकीर्ते
अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुयाहि स्म राजन्