लोमशः-
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये
सन्देशाच्चैव नृपतेस्स्वबुद्ध्या चैव भारत
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम्
नानागुल्मलतोपेतैस्स्वादुकामफलप्रदैः
अतीव रमणीयं तदतीव च मनोहरम्
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्
ततो निबध्य सा नावमदूरे काश्यपाश्रमात्
चारयामास पुरुषैर्विहारं तस्य वै मुनेः
ततो दुहितरं वेश्यां समध्याप्येतिकृत्यताम्
दृष्ट्वाऽश्रमं काश्यपस्य प्राहिणोद्बुद्धिसम्मताम्
सा तत्र गत्वा कुशला तपोनित्यस्य सन्निधौ
आश्रमं तं समासाद्य ददर्श तमृषेस्सुतम्
वेश्या-
कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं समृद्धम्
कच्चिद्भवान्कुशली चाश्रमेऽस्मिंस्त्वां वै द्रष्टुं साम्प्रतमागताऽस्मि
कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनसत्वः
कच्चित्त्वया प्रीयते चैव विप्र कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग
ऋश्यशृङ्गः-
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम्
पाद्यं ते वै सम्प्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव
कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनाऽऽवृतायां शुभायाम्
क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि ते वद त्वम्
वेश्या-
ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण
तत्र स्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामि
ऋश्यशृङ्गः-
फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव
बिल्वानि चैवेङ्गुदधन्वनानि प्रियालकान् कामकरं कुरुष्व
लोमशः-
सा तानि सर्वाणि विसर्जयित्वा भक्षान् महार्हान् प्रददौ च तस्मै
तान्यृश्यशृङ्गास्य महारसानि भृशं सुरूपाणि भृशाधिकानि
ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति
पेयानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव
सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव
गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम्
सर्जानशोकांस्तिलकांश्च वृक्षान्प्रपुष्पितानवनाम्यावभज्य
विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः
अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनःपुनः पीड्य च कायमस्य
अवेक्ष्यमाणा शनकैर्जगाम कृत्वाऽग्निहोत्रस्य तदाऽपदेशम्
तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः
तामेव भावेन गतेन शून्यो विनिःश्वसन्नार्तरूपो बभूव
ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरानखाग्रम्
स्वाध्यायवान्वृत्तसमाधियुक्तो विभण्डकः काश्यपः प्रादुरासीत्
सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम्
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभण्डकः पुत्रमुवाच दीनम्
विभण्डकः-
कल्प्यन्ते वै समिधः किन्नु तात कच्चिद्ध्रुतं चाग्निहोत्रं त्वयाऽद्य
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्सा च कृता त्वया च
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च
दीनोऽतिमात्रं किमिवाद्य खिन्नः पृच्छामि त्वां क इहाभ्यागतोऽभूत्