वैशम्पायनः-
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
नन्दां परमनन्दां च नद्यौ पापभयापहे
स पर्वतं समासाद्य हेमकूटमनामयम्
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः
वाचो यत्राभवन्क्रोधा उपलाश्च सहस्रशः
नाशक्नुवंस्तदारोढुं विषण्णमनसोऽपि वा
वायुर्यत्र ववौ नित्यं नित्यं देवश्च वर्षति
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः
लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम्
युधिष्ठिरः-
यदेतद्भगवंश्चित्रं पर्वतेऽस्मिन्महौजसि
एतन्मे सर्वमाचक्ष्व विस्तरेण महाद्युते
लोमशः-
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन
तदेकाग्रमना राजन्निबोध वदतो मम
अस्मिन्नृषभकूटे तु वृषभो नाम तापसः
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्
स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह
य इह व्याहरेत्कश्चिदुपलानुत्सृजेत वा
वातं चाहूय मा शब्दमित्युवाच स तापसः
व्याहरंश्चेह पुरुषो मेघेन विनिवार्यते
एवमेतानि कर्माणि राजंस्तेन महर्षिणा
कृतानि कानिचित्क्रोधात्प्रतिषिद्धानि कानिचित्
नन्दामभिगता देवाः पुरा राजन्निति श्रुतिः
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः
तेनादर्शनमिच्छन्तो देवाश्शक्रपुरोगमाः
दुर्गं चक्रुरिमं देशं गिरिं प्रत्यूहरूपकम्
तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा
नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः
आरोढुं वाऽपि कौन्तेय तस्मान्नियतवाग्भव
इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान्
तेषामेतानि लिङ्गानि दृश्यन्ते पुरुषर्षभ
कुशाङ्कुरेण दूर्वेयं संस्तीर्णेव च मेदिनी
यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते
देवाश्च ऋषयश्चापि वसन्त्यद्यापि भारत
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः
इहाप्लुतानां कौन्तेय पाप्मा सद्योऽभिहन्यते
कुरुश्रेष्ठाभिषेकं त्वमस्मिन्कुरु सहानुजैः
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्
वैशम्पायनः-
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम्
लोमशः-
एषा देवी नदी पुण्या कौशिकी भरतर्षभ
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः
ऋश्यशृङ्गस्सुतो यस्य तपस्वी संयतेन्द्रियः
तपसो यः प्रभावेन वर्षयामास पाण्डव
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा
मृग्यां जातस्स तेजस्वी काश्यपस्य सुतः प्रभुः
विषये रोमपादस्य यश्चकाराद्भुतं महत्
निर्वर्तिते तु सस्ये च यस्मै शान्तां ददौ नृपः
रोमपादो दुहितरं सावित्रीं सविता यथा
युधिष्ठिरः-
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः
विरुद्धयोनिसंसर्गे कथं च तपतां वरः
किमर्थं च भयात्तस्य क्रोधाद्बालस्य धीमतः
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा
कथंरूपा च सा शान्ता राजपुत्री यतव्रता
लोभयामास या चेतो मृगभूतस्य तस्य वै
रोमपादस्स राजर्षिर्यदाऽश्रूयत धार्मिकः
कथं वै विषये तस्य नावर्षत्पाकशासनः
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्
वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस्य चेष्टितम्
लोमशः-
विभण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः
अमोघवीर्यस्य सुतः प्रजापतिसमद्युतेः
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्
महाह्रदे महातेजा बालस्स्थविरसम्मतः
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसम्मितः
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम्
अप्सूपस्पृशतो राजंस्तद्रेतः पतितं तदा
सह तोयेन तृषिता मृगी तच्चापिबत्तदा
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः
ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः
तेनर्श्यशृङ्ग इत्युक्तस्तपसा पाण्डवर्षभ
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप
एतस्मिन्नेव काले तु सखा दशरथस्य वै
रोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत्
तेन कामाः कृता मिथ्या ब्राह्मणेभ्य इति श्रुतिः
दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम
पुरोहितापचारेण तस्य राज्ञो यदृच्छया
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः
रोमपादः-
कथं स वर्षेत्पर्जन्य उपायः परिमृश्यताम्
लोमशः-
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह
मुनिवरः-
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर
ऋश्यशृङ्गं मुनिवरमानयस्व च पार्थिव
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम्
स चेदवतरेद्राजन्विषयं ते महातपाः
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः
लोमशः-
एतच्छ्रुत्वा तु वचनं कृत्वा निष्कृतिमात्मनः
स कृत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु
राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः
स वै ताः प्रतिजग्राह पितेव हितकृत्सदा
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये
सोऽध्यगच्छदुपायं तु तैरमात्यैस्सहाच्युतः
शास्त्रज्ञैरलमर्थज्ञैर्नित्यं च परिनिष्ठितैः
ततस्ता आनयामास वारमुख्या महीपतिः
वेश्यास्सर्वत्र निष्णातास्ता उवाच स पार्थिवः
रोमपादः-
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः
लोभयित्वाऽतिविश्वस्तं विषयं मम शोभनाः
लोमशः-
ता राजभयभीताश्च शापभीताश्च योषितः
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः
तं चैका च जरद्योषा राजानमिदमब्रवीत्
जरद्योषा-
प्रयतिष्ये महाराज तमानेतुं तपोधनम्
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि
ततश्शक्ष्ये लोभयितुमृश्यशृङ्गमृषेस्सुतम्
लोमशः-
तस्यास्सर्वमभिप्रायमन्वजानात्स पार्थिवः
धनं च प्रददौ भूरि रत्नानि विविधानि च
ततो रूपेण सम्पन्ना रत्नानि च विशां पते
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा