लोमशः-
भगीरथवचश्श्रुत्वा प्रियार्थं त्रिदिवौकसाम्
एवमस्त्विति राजानं भगवान्प्रत्यभाषत
श्रीमहादेवः-
धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम्
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम
लोमशः-
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत्
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः
श्रीमहादेवः-
तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह
प्रयाचस्व महाबाहो शैलराजसुतां नदीम्
पितॄणां पावनार्थं ते तामहं मनुजाधिप
पतमानां सरिच्छ्रेष्ठां धारियिष्ये त्रिविष्टपात्
लोमशः-
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम्
प्रयतः प्रणतो भूत्वा गङ्गां हि समचिन्तयत्
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता
तां प्रच्युतां ततो दृष्ट्वा देवास्सार्धं महर्षिभिः
गन्धर्वोरगयक्षाश्च समाजग्मुर्दिदृक्षवः
ततः पपात गगनाद्गङ्गा हिमवतस्सुता
समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला
तां दधार हरो राजन्गङ्गां गगनमेखलाम्
ललाटदेशे पतितां मालां मुक्तामयीमिव
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित्
स्वफेनपटसंवीता मत्तेव प्रमदाऽव्रजत्
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम्
क्वचिदाकाशमावर्तैस्सङ्क्षिपन्तीव सर्वशः
एवम्प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता
पृथिवीतलमासाद्य भगीरथमथाब्रवीत्
गङ्गा-
दर्शयस्व महाराज मार्गं केन व्रजाम्यहम्
त्वदर्थमवतीर्णाऽस्मि पृथिवीं पृथिवीपते
लोमशः-
एतच्छ्रुत्वा महाराज प्रातिष्ठत भगीरथः
यत्र तानि शरीराणि सागराणां महात्मनाम्
प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैस्सह
समासाद्य समुद्रं च गङ्गया सहितो नृपः
पूरयामास वेगेन समुद्रं वरुणालयम्
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत्
पितृभ्यश्चोदकं तत्र ददौ पूर्णमनोरथः
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा
पूरणार्थं समुद्रस्य पृथिवीमवतारिता
कालेयाश्च यथा राजंस्त्रिदशैर्विनिपातिताः
समुद्रश्च यथा पीतः कारणार्थे महात्मना
वातापिश्च यथा नीतः क्षयं स ब्रह्महा तु यः
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि