लोमशः-
स तु राजा महेष्वासश्चक्रवर्ती महामनाः
बभूव सर्वलोकस्य मनोनयननन्दनः
स शुश्राव महाबाहुः कपिलेन महात्मना
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च
स राज्यं सचिवे न्यस्य हृदयेन विदूयता
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः
सोऽपश्यत गिरिश्रेष्ठं हिमवन्तं नगोत्तमम्
शृङ्गैर्बहुविधाकारैर्धातुबद्धैरलङ्कृतम्
पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्
गुहाकन्दरसल्ँलीनैस्सिंहव्याघ्रैर्निषेवितम्
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः
भृङ्गराजैस्तथा राजन्नत्यूहैर्जलकुक्कुटैः
मयूरैश्शतपत्रैश्च कोकिलैर्यावजीवकैः
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि
जलस्थानेषु सर्वेषु पद्मिनीभिश्च सङ्कुलम्
सारसानां च मधुरैर्व्याहृतैस्समलङ्कृतम्
किन्नरैरप्सरोभिश्च गन्धर्वैश्च निषेवितम्
दिग्गजेन्द्रविषाणाग्रैस्समन्ताद्धृष्टपादपम्
विद्याधरानुचरितं नानाद्रुमलतायुतम्
विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम्
क्वचित्कनकसङ्काशं क्वचिद्रजतसन्निभम्
क्वचिदञ्जनपद्माभं हिमवन्तमुपागमत्
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः
फलमूलाम्बुभक्षोऽभूत् सहस्रपरिवत्सरान्
संवत्सरसहस्रे तु गते दिव्ये महानदी
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्
गङ्गा-
किमिच्छसि महाराज मत्तः किञ्च ददानि ते
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव
लोमशः-
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा
नदीं भगीरथो राजन्प्रणिपत्य कृताञ्जलिः
भगीरथः-
पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कापिलं तेज आसाद्य क्षणेन निधनं गताः
एषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत्तानि शरीराणि त्वं जलैर्नाभिवर्षसि
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्
तेषामर्थेऽभियाचामि त्वामहं वै महानदि
लोमशः-
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता
भगीरथमिदं वाक्यं प्रीता पश्चादभाषत
गङ्गा-
करिष्यामि महाराज वचस्ते नात्र संशयः
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्
तं तोषय महाबाहो तपसा वरदं हरम्
स तु मां प्रच्युतां देवश्शिरसा धारयिष्यति
करिष्यति च ते कामं पितॄणां हितकाम्यया
तपसाऽऽराधितश्शम्भुर्भगर्वाल्ँलोकभावनः
लोमशः-
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः
कैलासं पर्वतं गत्वा तोषयामास शङ्करम्
ततस्तेन समागम्य कालयोगेन केनचित्
गङ्गावतरणं राजन्नयाचत महीपतिः
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप
स्वर्गे वासं समुद्दिश्य पितॄणां स नरोत्तमः