युधिष्ठिरः-
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम्
वैशम्पायनः-
एवमुक्तस्तु विप्रेन्द्रो धर्मराजेन धीमता
कथयामास माहात्म्यं सगरस्य महात्मनः
लोमशः-
इक्ष्वाकूणां कुले जातस्सगरो नाम पार्थिवः
रूपसत्त्वबलोपेतस्स चापुत्रः प्रतापवान्
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत
वशे कृत्वा तु राज्ञोऽन्यान्स्वराज्यमनुशिष्टवान्
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ
स पुत्रकामो नृपतिस्तताप सुमहत्तपः
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः
स तप्यमानस्सुमहत्तपोयोगसमन्वितः
आराधयन्महात्मानं शर्वं त्रिभुवनेश्वरम्
शङ्करं भवमीशानं शूलपाणिं पिनाकिनम्
त्र्यम्बकं च शिवं श्रेष्ठं बहुरूपमुमापतिम्
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः
प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम्
श्रीमहादेवः-
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम्
षष्टिः पुत्रसहस्राणि शूरास्समरदर्पिताः
एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव
एको वंशकरश्शूर एकस्यां सम्भविष्यति
लोमशः-
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत
स चापि सगरो राजा जगाम स्वं निवेशनम्
पत्नीभ्यां सहितस्तत्र सोऽतिहृष्टमनास्तदा
कालं शम्भुवरप्राप्तं प्रतीक्षन्सगरोऽनयत्
तस्येमे भरतश्रेष्ठ भार्ये कमललोचने
वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम्
तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रेऽथ पार्थिवः
अथान्तरिक्षे शुश्राव वाचं गम्भीरनिस्स्वनाम्
अशरीरवाणी-
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि
अलाबुमध्यान्निष्कृष्य वीजं यत्नेन धार्यताम्
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव
महादेवेन दिष्टं ते पुत्रजन्म नराधिप
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा
लोमशः-
एतच्छ्रुत्वाऽन्तरिक्षाद्वै स राजा राजसत्तमः
यथोक्तं तच्चराकाथ श्रद्दधद्भरतर्षभ
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः
रुद्रप्रसादाद्राजर्षेस्समजायन्त पार्थिव
ते घोराः क्रूरकर्माण आकाशे परिसर्पिणः
बहुत्वाच्चावजानन्तस्सर्वाल्ँलोकान्सहामरान्
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्
सर्वाणि चैव भूतानि शूरास्समरशालिनः
वध्यमानास्तदा लोकास्सागरैर्मन्दबुद्धिभिः
ब्रह्माणं शरणं जग्मुस्सहितास्सर्वदैवतैः
तानुवाच महाभागस्सर्वलोकपितामहः
ब्रह्मा-
गच्छध्वं त्रिदशास्सर्वे लोकैस्सार्धं यथागतम्
नातिदीर्घेण कालेन सागराणां क्षयो महान्
भविष्यति महाघोरस्स्वकृतैः कर्मभिस्सुराः
लोमशः-
एवमुक्तास्तु ते देवा लोकाश्च मनुजोत्तम
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्
ततः काले बहुतिथे व्यतीते भरतर्षभ
दीक्षितस्सगरो राजा हयमेधेन वीर्यवान्
तस्याश्वो व्यचरद्भूमिं पुत्रैस्तैः परिरक्षितः
सर्वैरेव महोत्साहैस्स्वच्छन्दप्रचरो नृप
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत
ततस्ते सागरास्तात हृतं ज्ञात्वा हयोत्तमम्
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्
तेनोक्ता दिक्षु सर्वासु पुत्रा मार्गत वाजिनम्
ससमुद्रवनद्वीपां विचरन्तो वसुन्धराम्
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्
अमार्गन्त महाराज सर्वं च पृथिवीतलम्
ततस्ते सागरास्सर्वे समासाद्य परस्परम्
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
स्थितास्सर्वे महीपालास्सागरास्सहितास्तदा
लोमशः-
सपर्वतवनोद्देशा निखिलेन मही नृप
ससमुद्रवनद्वीपा सनदीनदकन्दरा
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव
न चाश्वमधिगच्छामो वाजिहर्तारमेव वा
लोमशः-
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्च्छितः
उवाच वचनं सर्वांस्तदा दैववशान्नृप
लोमशः-
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्
याज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः
लोमशः-
प्रतिगृह्य तु सन्देशं पितुस्ते सगरात्मजाः
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः
अथापश्यन्त ते वीराः पृथिवीं तु विदारिताम्
समुद्रे पृथिवीपाल पदं मार्गं तु वाजिनः
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः
कुद्दालैर्मुसलैश्चैव समुद्रं यत्नमास्थिताः
स खन्यमानस्सहितैस्सागरैर्वरुणालयः
अगच्छत्परमामार्तिं दार्यमाणस्समन्ततः
असुरोरगरक्षांसि सत्त्वानि विविधानि च
आर्तनादमकुर्वन्त वध्यमानानि सागरैः
भिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः
प्राणिनस्समदृश्यन्त शतशोऽथ सहस्रशः
एवं हि खनतां तेषां समुद्रं वरुणालयम्
व्यतीतस्सुमहान्कालो न चाश्वस्समदृश्यत
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते
विदार्य पातालमुखं सङ्क्रुद्धास्सगरात्मजाः
अपश्यन्त हयं तत्र विचरन्तं महीतले
कपिलं च महात्मानं तेजोराशिमनुत्तमम्
तेजसा दीप्यमानं तं ज्वालाभिरिव पावकम्
दृष्ट्वा हि हृषितास्सर्वे बभूवुस्सगरात्मजाः
ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः
अनादृत्य महात्मानं कपिलं कालचोदिताः
सङ्क्रुद्धास्समधावन्त वाजिग्रहणकाङ्क्षिणः
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्
स चापि विकृतिं कृत्वा तेजस्तेषु समुत्सृजन्
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्
षष्टिं तानि सहस्राणि युगपन्मुनिसत्तमः
सगरस्याऽऽत्मजान्सर्वान् भस्मसादकरोन्मुनिः
तान्दृष्ट्वा भस्मसाद्भूतान्नारदस्सुमहातपाः
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत्
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्
स पुत्रनिधनोद्भूतदुःखेन समभिप्लुतः
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्
अंशुमन्तं समाहूय असमञ्जसुतं तदा
पौत्रं भरतशार्दूल इदं वचनमब्रवीत्
सगरः-
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम्
कापिलं तेज आसाद्य मत्कृते निधनं गताः
तव चापि पिता तात परित्यक्तो मयाऽनघ
धर्मं संरक्षमाणेन पौराणां हितकाम्यया
युधिष्ठिरः-
किमर्थं राजशार्दूलस्सगरः पुत्रमात्मजम्
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन
लोमशः-
असमञ्ज इति ख्यातस्सगरस्य सुतोऽभवत्
यं शैब्या जनयामास पौराणां स हि दारकान्
क्रीडतस्सहसाऽऽसाद्य तत्रतत्र महीपते
चूडासु क्रोशतो गृह्य नद्यां चिक्षेप वै बलात्
ततः पौरास्समाजग्मुर्भयशोकसमाप्लुताः
सगरं चाप्ययाचन्त सर्वे प्राञ्जलयः स्थिताः
पौराः-
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात्
असमञ्जभयाद्घोरादस्मांस्त्रातुं त्वमर्हसि
लोमशः-
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्
सगरः-
असमञ्जः कुमारोऽद्य नगराद्विप्रवास्यताम्
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्
लोमशः-
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना
पौराणां विप्रिये तिष्ठन् सगरेण विवासितः
अंशुमांस्तु महेष्वासो यदुक्तस्सगरेण हि
तत्तेऽहं सम्प्रवक्ष्यामि कीर्त्यमानं निबोध मे
सगरः-
त्यागात्तव पितुश्चापि शेषाणां निधनेन च
अलाभेन तथाऽश्वस्य परितप्स्यामि पुत्रक
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम्
हयस्याऽऽनयनात्पौत्र नरकान्मां समुद्धर
लोमशः-
अंशुमानेवमुक्तस्तु सगरेण महात्मना
जगाम दुःखात् तं देशं यत्र वै दारिता मही
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह
अपश्यच्च महात्मानं कपिलं तुरगं च तम्
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत्
उवाच चैनं धर्मात्मा वरदोस्मीति भारत
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः
कपिलः-
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्
त्वया कृतार्थस्सगरः पुत्रवांश्च त्वया पिता
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः
शलभत्वं गता ह्येते मम क्रोधहुताशने
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति
पावनार्थं सागराणां तोषयित्वा महेश्वरम्
हयं नयस्व भद्रं ते याज्ञियं नरपुङ्गव
यज्ञस्समाप्यतां तस्य सगरस्य महात्मनः
लोमशः-
अंशुमानेवमुक्तस्तु कपिलेन महात्मना
आजगाम हयं गृह्य यज्ञवाटं महात्मनः
सोऽभिवाद्य पितुः पादौ सगरस्य महात्मनः
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम्
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्
अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम्
समाप्तयज्ञस्सगरो देवैस्सर्वैस्सभाजितः
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः
पौत्रे भारं समावेश्य जगाम त्रिदिवं नृपः
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्
प्रशशास महाराज यथैवास्य पितामहः
तस्य पुत्रस्समभवद्दिलीपो नाम धर्मवित्
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः
दिलीपस्तु ततश्श्रुत्वा पितॄणां निधनं महत्
पर्यतप्यत दुःखेन गतिं तेषां विचिन्तयन्
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः
न चावतारयामास चेष्टमानो यथाबलम्
तस्य पुत्रस्समभवच्छ्रीमान्धर्मपराणः
भगीरथ इति ख्यातस्सत्यवागनसूयकः
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः
भगीरथं महात्मानं सत्यधर्मपरायणम्
तपस्सिद्धिसमायोगात्स राजा भरतर्षभ
वनाज्जगाम त्रिदिवं कालयोगेन भारत