युधिष्ठिरः-
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम
लोमशः-
शृणु राजन्कथां पुण्यामद्भुतामतिमानुषीम्
अगस्त्यस्य महाराज प्रभावममितौजसः
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः
कालेया इति विख्याता गणाः परमदारुणाः
ते तु वृत्रं समासाद्य नानाप्रहरणोद्यताः
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा
पुरन्दरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठिरुवाच ह
परमेष्ठी-
विदितं मे सुरास्सर्वं यद्वो भयमुपस्थितम्
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ
दधीच इति विख्यातो महानृषिरुदारधीः
तं गत्वा सहितास्सर्वे वरं वै सम्प्रयाचत
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना
स वाच्यस्सहितैस्सर्वैर्भवद्भिर्जयकाङ्क्षिभिः
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै
स शरीरात्समुत्सृज्य स्वान्यस्थीनि प्रदास्यति
तस्य चास्थि तथा घोरं वज्रं संह्रियतां दृढम्
महच्छत्रुहणं घोरं षडश्रं भीमनिःस्वनम्
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
एतद्वस्सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्
लोमशः-
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्
नारायणं पुरस्कृत्य दधीचस्याऽऽश्रमं ययुः
सरस्वत्याः परे पारे नानाद्रुमलतायुतम्
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम्
महिषैश्च वराहैश्च भ्रमरैरमरैरपि
तत्र तत्रानुचरितं मृगेन्द्रभयवेदितैः
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
सरोवगाढैः क्रीडद्भिस्समन्तादनुनादितम्
अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्
त्रिविष्टपसमप्रख्यं दधीचाश्रममागताः
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम्
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना
ततो दधीचः परमप्रीतस्सुरोत्तमांस्तानिदमभ्युवाच
दधीचः-
लोमशः-
करोमि यद्वो हितमद्य देवास्स्वं चापि देहं स्वयमुत्सृजामि
स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज
ततस्सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम्
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः
त्वष्टा-
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम्
ततो हतारिस्सगणस्सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः
लोमशः-
त्वष्ट्रा तथोक्तस्स पुरन्दरस्तु वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्
ततस्स वज्री बलभिद्दैवतैरभिरक्षितः
आससाद ततो वृत्रं स्थितमावृत्य रोदसी
कालेयैश्च महाकायैस्समन्तादभिरक्षितम्
समुद्यतप्रहरणैस्सशृङ्गैरिव पर्वतैः
ततो युद्धं समभवद्देवानां सह दानवैः
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
उद्यतप्रतिविद्धानां खड्गानां वीरबाहुभिः
आसीत्सुतुमुलश्शब्दश्शरीरेष्वभिपातितः
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्
फालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः
त्रिदशानभ्यधावन्त दावदग्धा इवाद्रयः
तेषां वेगवतां वेगं सहितानां प्रधावताम्
न शेकुस्त्रिदशास्सोढुं ते भग्नाः प्राद्रवन्भयात्
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः
वृत्रे विवर्धमाने च कश्मलं महदाविशत्
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुस्सनातनः
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्
विष्णुनाऽऽप्यायितं दृष्ट्वा शक्रं देवगणास्ततः
स्वंस्वं तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः
स समाप्यायितश्शक्रो विष्णुना दैवतैस्सह
ऋषिभिश्च महाभागैर्बलवान्समपद्यत
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान्
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम्
ततो महेन्द्रः परमाभितप्तश्श्रुत्वा रवं घोरमुदग्रकल्पम्
भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन्
स चक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी
यथा महाशैलवरः पुरस्तात्स मन्दरो विष्णुकरात् प्रमुक्तः
तस्मिन्हते दैत्यवरे भयार्तश्शक्रः प्रदुद्राव सरः प्रवेष्टुम्
वज्रं न मेने स करात् प्रमुक्तं वृत्रं हतं चापि भयान्न मेने
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमथ स्तुवन्तः
वृत्रं हतं सन्ददृशुः पृथिव्यां वज्राहतं शैलमिवावकीर्णम्
सर्वांश्च दैत्यांस्त्वरितास्समेत्य जघ्नुस्सुरा वृत्रवधाभितप्तान्
ते वध्यमानास्त्रिदशैस्तदानीं समुद्रमेवाऽऽविविशुर्भयार्ताः
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च
तदा सुमन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिप्रयुक्ताः
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपयानुपवर्णयन्ति
तेषां तु तत्र क्रमयोगकालाद्घोरा मतिश्चिन्तयतां बभूव
ये सन्ति विद्यातपसोपपन्नास्तेषां तु कार्यः प्रथमं विनाशः
लोका हि सर्वे तपसा ह्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय
ये सन्ति केचिच्च वसुन्धरायां तपस्विनो धर्मविदश्च तज्ज्ञाः
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगद्विनष्टम्
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्याऽऽलयं स्म
समुद्रान्तं समाश्रित्य वरुणं निधिमम्भसाम्
कालेयास्सम्प्रवर्तन्ते त्रैलोक्यस्य विनाशने
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः
अशीतिश्शतमष्टौ च नव चान्ये तपस्विनः
च्यवनस्याऽऽश्रमं गत्वा पुण्यं द्विजनिषेवितम्
फलमूलाशनानां हि मुनीनां भक्षितं शतम्
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा
कालेयाश्च दुरात्मानो भक्षयन्तस्तपोधनान्
भारद्वाजाश्रमे चैव नियता ब्रह्मचारिणः
वाय्वाहाराम्बुभक्षाश्च विंशतिः सन्निपातिताः
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा
निशायां परिधावन्ति समुद्राम्बुबलाश्रयात्
कालोपसृष्टाः कालेया घ्नन्तो मुनिगणान्बहून्
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम
एवं प्रवृत्तास्ते दैत्यास्तापसेषु तपस्विषु
क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम्
प्रभाते समदृश्यन्त नियताहारकर्शिताः
महीतलस्था मुनयश्शरीरैर्गतजीवितैः
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः
आकीर्णैराचिता भूमिश्शङ्खानामिव राशिभिः
कलशैर्विप्रविद्ध्यर्हैः स्रुवैर्भग्नैस्तथैव च
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्
जगदासीन्निरुत्साहं कालेयभयपीडितम्
एवं ते क्षीयमाणाश्च मानवा मनुजेश्वर
आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात्
केचिद्गुहाः प्रविविशुर्निर्दरांश्चापरे श्रिताः
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन्
केचित्तत्र महेष्वासाश्शूराः परमदर्पिताः
मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्
श्रमं च परमं जग्मुर्जग्मुश्च क्षयमेव च
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये
आजग्मुः परमामार्तिं त्रिदशा मनुजाधिप
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे
नारायणं पुरस्कृत्य वैकुण्ठमपराजितम्
ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्
देवाः-
त्वं नस्स्रष्टा च पाता च भर्ता च जगतः प्रभो
त्वयोत्सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति
त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण
वाराहं रूपमास्थाय जगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यस्सर्वभूतानां बलिश्चापि महासुरः
वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितः पुरा
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः
यज्ञक्षोभकरश्शूरस्त्वयैव विनिपातितः
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ख्यापयामहे
रक्ष देवांश्च लोकांश्च शक्रं च महतो भयात्
शरणागतसन्त्राणे त्वमेकोऽसि दृढव्रतः
इतः प्रधाना वर्धन्ते प्रजास्सर्वाश्चतुर्विधाः
ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः
इदं च समनुप्राप्तं लोकानां भयमुत्तमम्
न च जानीम केनेति रात्रौ वध्यन्ति ये द्विजान्
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति
त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः
श्रीभगवान्-
विदितं मे सुरास्सर्वं प्रजानां क्षयकारणम्
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः
कालेया इति विख्याता गणाः परमदारुणाः
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम्
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते
समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम्
लोमशः-
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्
विष्णुमेव पुरस्कृत्य ब्रह्माणं समुपस्थिताः
ततस्ते प्रणता भूत्वा तमेवार्थं न्यवेदयन्
सर्वलोकविनाशार्थं कालेयाः कृतनिश्चयाः
तेषां तद्वचनं श्रुत्वा पद्मयोनिस्सनातनः
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः
परमेष्ठी-
विदितं मे सुरास्सर्वं दानवानां विचेष्टितम्
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः
क्षयस्तेषामनुप्राप्तः कालेनोपहताश्च ते
उपायं सम्प्रवक्ष्यामि समुद्रस्यापि शोषणे
अगस्त्य इति विख्यातो वारुणिस्सुसमाहितः
तमुपागम्य सहिता इममर्थं प्रयाचत
स हि शक्तो महाभागः क्षणात्पातुं महोदधिम्
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ
लोमशः-
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः
समनुज्ञाप्य ब्रह्माणं वारुणिं समुपस्थिताः
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्
उपास्यमानमृषिभिर्देवैरिव पितामहम्
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्
आश्रमस्थं तपोराशिं कर्मभिस्स्वैस्तु तुष्टुवुः
देवाः-
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नगोत्तमः
वचस्तवानतिक्रामन्विन्ध्यश्शैलो न वर्धते
तमसा चावृते लोके मृत्युनाऽभ्यर्दिताः प्रजाः
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः
अस्माकं भयभीतानां नित्यशो भगवान्गतिः
ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि