लोमशः-
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत्
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना नृप
ततो राजर्षयस्सर्वे विषण्णा गतचेतसः
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्
अगस्त्यः-
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम्
लोमशः-
स तुर्यासनमाक्रम्य निषसाद महानृषिः
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः
भुक्तवत्यसुरोऽह्वानमकरोत्तस्य इल्वलः
इल्वलः-
वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी
तपसा दुर्जयो यावदेष त्वां नातिवर्तते
लोमशः-
ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत्
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः
स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः
अगस्त्यः-
एष जीर्णोऽसि वातापे मया लोकस्य शान्तये
लोमशः-
इत्युक्त्वा स्वकराग्रेण उदरं समताडयत्
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव
ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः
इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम्
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्
इल्वलः-
लोमशः-
किमर्थमुपयातास्स्थ ब्रूत किं करवाणि वः
तमगस्त्यो हसन्वाक्यमिल्वलं प्रत्यभाषत
अगस्त्यः-
ईसो ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्
लोमशः-
इमे च ताताधनिनो धनार्थश्च महान् मम
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः
ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत्
इल्वलः-
ईप्सितं यदिह ब्रूहि वेत्सि तद्धि दास्यामि ते वसु
अगस्त्यः-
गवां शतसहस्राणि राज्ञामेकैकशो वसु
तावदेव सुवर्णस्य दित्सितं ते महासुर
मह्यं ततो वै द्विगुणं रथं चैव हिरण्मयम्
मनोजवौ वाजिनौ द्वौ दित्सितं ते महासुर
लोमशः-
इल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम्
रथं तु समवोचो मां नैतं विद्म हिरण्मयम्
आगस्त्यः-
न मे वागनृता काचिदुक्तपूर्वा महासुर
विज्ञायतां रथस्साधु व्यक्तमेव हिरण्मयः
लोमशः-
विज्ञायमानस्स रथः कौन्तेयाऽऽसीद्धिरण्मयः
ततस्स व्यथितो दैत्यो ददावभ्यधिकं वसु
विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ
ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति
सर्वान्राज्ञस्सहागस्त्यान्निमेषादिह भारत
इल्वलस्त्वनुगम्यैनं हन्तुमैच्छन्महासुरः
भस्म चक्रे महातेजा हुङ्कारेण महासुरम्
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा
कृतवांश्च मुनिस्सर्वं लोपामुद्राचिकीर्षितम्
लोपामुद्रा-
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्
अगस्त्यः-
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने
विचारणामपत्ये तु वक्ष्यामि शृणु तां मम
सहस्रं तेऽस्तु पुत्राणां शतं वा तत्समं तव
दश वा शततुल्यास्स्युरेको वाऽपि सहस्रवत्
लोपामुद्रा-
सहस्रसम्मितः पुत्र एको मेऽस्तु तपोधन
एको हि बहुभिश्श्रेयान्विद्वान्साधुरसाधुभिः
लोमशः-
स तथेति प्रतिज्ञाय तया समगमन्मुनिः
समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया
तत आधाय गर्भं तमगमद्वनमेव सः
तस्मिन्वनं गते गर्भो ववृधे सप्त शारदान्
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत
साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः
तस्य पुत्रोऽभवदृषेस्स तेजस्वी महानृषिः
स बाल एव तेजस्वी पितुस्तस्य निवेशने
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा
एवं स जनयामास भारतापत्यमुत्तमम्
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान्
अगस्त्यस्याऽऽश्रमश्चायमत ऊर्ध्वं विशाम्पते
ख्यातो भुवि महाराज तेजसा तस्य धीमतः
प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः
एवं विनिहतो राजन्नगस्त्येन महात्मना
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः
एषा भागीरथी पुण्या यथेष्टमवगाह्यताम्