लोमशः-
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः
स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम्
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः
प्राञ्जलिः प्रणतो भूत्वा पप्रच्छाऽऽगमनेऽर्थितम्
अगस्त्यः-
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे
लोमशः-
तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत्
अतो विद्वन्नुपागच्छ यदत्राभ्यधिकं वसु
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः
सर्वथा प्राणिनां पीडामुपादानादमन्यत
स श्रुतर्वाणमादाय वार्ध्यश्वमगमत्ततः
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि
तयोरर्घ्यं च पाद्यं च वार्ध्यश्वः प्रत्यवेदयत्
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे
अगस्त्यः-
वित्तकामाविह प्राप्तौ वार्ध्यश्व पृथिवीपते
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ
लोमशः-
तत आयव्ययौ पूर्णौ जामाताऽस्य न्यवेदयत्
ततो ज्ञात्वा समादत्तां यदत्राप्यतिरिच्यते
तत आयव्ययौ दृष्ट्वा समौ सममतिस्स्म तौ
सर्वथा प्राणिनां पीडामुपादानादमन्यत
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्
अगस्त्यश्च श्रुतर्वा च वार्ध्यश्वश्च महीपतिः
त्रसदस्युस्तु तान्सर्वान्प्रत्यगृह्णाद्यथाविधि
अभिगम्य महाराज विषयान्ते स चादृतः
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः
समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे
अगस्त्यः-
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते
यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः
लोमशः-
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्
ततो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते
तत आयव्ययौ दृष्ट्वा तस्यापि स मुनिस्तदा
सर्वथा प्राणिनां पीडामुपादानादमन्यत
ततस्सर्वे समेत्याथ ते नृपास्तं महामुनिम्
इदमूचुर्महाराज समवेक्ष्य परस्परम्
राजानः-
अयं वै दानवो ब्रह्मन्धनवान्निल्वलो भुवि
तमतिक्रम्य सर्वेऽद्य वयं याचामहे वसु
लोमशः-
तेषां तदासीदुचितमिल्वलस्योपभिक्षणम्
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्