वैशम्पायनः-
ततस्सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह
युधिष्ठिरः-
तत्रैव लोमशं राजा पप्रच्छ वदतां वरः
अगस्त्येनेह वातापिः किमर्थमुपशामितः
आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः
किमर्थं चोद्यतो मन्युरगस्त्यस्य महात्मनः
लोमशः-
इल्वलो नाम दैतेय आसीत्कौरवनन्दन
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः
इल्वलः-
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु
लोमशः-
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसम्मितम्
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्
तदा प्रभृति राजेन्द्र ब्रह्महाऽसुरसत्तमः
मन्युमान्भ्रातरं छागं मायावी प्रचकार ह
समाह्वयति यं वाचा गतं वैवस्वतक्षयम्
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्
ब्राह्मणान्भोजयित्वाऽसौ पुनरेव समाह्वयत्
तस्य स्वनेन महता स्वरेण गिरमीरिताम्
श्रुत्वाऽतिमायो बलवान्क्षिप्रं ब्राह्मणकण्टकः
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः
हिंसयामास दैतेय इल्वलो दुष्टचेतनः
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु
पितॄन्ददर्श गर्ते तु लम्बमानानवाङ्मुखान्
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किम्पराः
किमर्थं वेह लम्बध्वं गर्ते यूयमधोमुखाः
सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः
ते तस्मै कथयामासुर्वयं ते पितरस्स्वकाः
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं चापि भज नो गतिम्
अगस्त्यः-
स तानुवाच तेजस्वी सत्यधर्मपरायणः
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः
लोमशः-
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं त्त्वयम्
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्
सङ्गृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्
स तां विदर्भराजाय पुत्रकामाय श्राम्यते
निर्मितामात्मनोऽगस्त्यो मुनिः प्रादान्महातपाः
सा तत्र यज्ञे सुभगा विद्युत्सौदामनी यथा
विभ्राजमाना वपुषा व्यवर्धत शुभानना
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः
ववृधे सा महाराज बिभ्रती रूपमुत्तमम्
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा
तां यौवनगतां राजञ्शतं कन्यास्स्वलङ्कृताः
दासी शतं च कल्याणीमुपातस्थुर्वशानुगाः
सा स्म दासीशतवृता मध्ये कन्याशतस्य च
आस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा
यौवनस्थामपि च तां शीलाचारसमन्विताम्
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति
तोषयामास पितरं शीलेन स्वजनं तथा
वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता
मनसा चिन्तयामास कस्मै दद्यामिमां सुताम्
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तामनिन्दिताम्
तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्
अगस्त्यः-
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे
लोमशः-
एवमुक्तस्स मुनिना महीपालो विचेतनः
प्रत्याख्यानाय चाशक्तः प्रदातुमपि नेच्छति
विदर्भराजः-
ततस्स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः
महर्षिर्वीर्यवानेष क्रुद्धश्शापाग्निना दहेत्
लोमशः-
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्
लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत्
लोपमुद्रा-
मत्कृते न महीपाल पीडामभ्येतुमर्हसि
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः
लोमशः-
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते
अगस्त्यः-
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च
लोमशः-
ततस्सा तानि वासांसि तनूनि च मृदूनि च
समुत्ससर्ज रम्भोरूर्दिव्यान्याभरणानि च
ततश्चीराणि जग्राह वल्कलान्यजिनानि च
समानव्रतचर्या च बभूवाऽऽयतलोचना
गङ्गाद्वारमुपागम्य भगवानृषिसत्तमः
उग्रमातिष्ठत तपस्सह पत्न्याऽनुकूलया
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा
अगस्त्यश्च परां प्रीतिं भार्यायामहरत्प्रभुः
ततो बहुतिथे काले लोपामुद्रां विशां पते
तपसा द्योतितां स्नातां ददर्श भगवानृषिः
स तस्याः परिचारेण शौचेन च दमेन च
श्रिया रूपेण च प्रीतो मैथुनायाऽऽजुहाव ताम्
ततस्सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्
लोपमुद्रा-
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत
तथा त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि
यथा पितुर्गृहे विप्र प्रासादे शयनं मम
तथाविधे त्वं शयने मामुपैतुमिहार्हसि
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्
उपसर्तुं यथाकामं दिव्याभरणभूषिता
अगस्त्यः-
न वै धनानि विद्यन्ते लोपामुद्रे तथा मम
यथाविधानि कल्याणि पितुस्तव सुमध्यमे
लोपामुद्रा-
ईशोऽसि तपसा सर्वं समाहर्तुं ममेप्सितम्
क्षणेन जीवलोके यद्वसु किञ्चन विद्यते
अगस्त्यः-
एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु मे
यथा तु मे न प्रणश्येत्तपस्तदुपधारय
लोपामुद्रा-
अल्पावशिष्टः कालोऽयमृतौ मम तपोधन
न चान्यथाऽहमिच्छामि त्वामुपैतुं कथञ्चन
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन
एतत्तु मे यथाकामं सम्पादयितुमर्हसि
अगस्त्यः-
यस्त्वेष कामस्सुभगे तव बुद्ध्या विनिश्चितः
हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता