युधिष्ठिरः-
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम
तथाऽस्मि दुःखसन्तप्तो यथा नान्यो महीपतिः
परांश्च निर्गुणान्मन्ये तानधर्मरतानपि
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन हेतुना
लोमशः-
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन
यदधर्मेण वर्धेरन्नधर्मरुचयो नराः
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति
ततस्सपत्नाञ्जयति समूलस्तु विनश्यति
यत्र धर्मेण वर्तन्ते राजानो राजसत्तम
सर्वान्सपत्नान्बाधन्ते राज्यं चैषां विवर्धते
मया हि दृष्टा दैतेया दानवाश्च महीपते
वर्धमाना ह्यधर्मेण क्षयञ्चोपगताः पुनः
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः
तानधर्मकृतो दर्पः पूर्वमेव समाविशत्
दर्पान्मानस्समभवन्मानात्क्रोधो व्यजायत
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्
तानलज्जान्गतश्रीकान्हीनवृत्तान्यथाचरान्
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः
दैतेयान्दानवांश्चैव कलिरप्याविशत्तदा
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः
तथाभिभूतानचिराद्विनाशस्समपद्यत
निर्यशस्कास्ततो दैत्याः कृत्स्नशो विलयं गताः
अधर्मरुचयो राजन्नलक्ष्म्या समधिष्ठिताः
ततो देवास्सागरांश्च सरितश्च सरांसि च
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव
प्रजहुस्सर्वपापानि श्रेयश्च प्रतिपेदिरे
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम्
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः
पुनर्लप्स्यसि तां लक्ष्मीमेष पन्थास्सनातनः
यथैव हि नृगो राजा शिबिरौशीनरो यथा
भगीरथो वसुमना गयः पूरुः पुरूरवाः
चरमाणाश्च युक्ताश्च स्पर्शनादम्भसश्च ते
तीर्थानां दर्शनात्पूता दर्शनाच्च महात्मनाम्
अलभन्त यशः पुण्यं धनानि च विशां पते
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम्
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च विशां पतिः
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि लप्स्यसे
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः
अचिराद्विनशिष्यन्ति दैत्या इव न संशयः